न स बालं न वृद्धं च परित्यजति भार्गवः
स्वयं जघान भूपान्स तेषां पार्श्वे तथा परान्
तथैवासृक्प्रगृह्णाति गृह्णापयति चादरात्
एवं निःक्षत्रियां कृत्वा कृत्स्नां पृथ्वीं भृगद्वहः
ततस्तै रुधिरैः स्नात्वा समादाय तिलान्बहून्
प्रत्यक्षं सर्वविप्राणां तथान्येषां तपस्विनाम्
ततो निःक्षत्रिये लोके कृत्वा हयमखं च सः
अथ लब्धवरा विप्रास्तमूचुर्भृगुसत्तमम् ६.६८.
तस्मात्त्वं देहि मे स्थानं कृत्वाऽपसरणं स्वयम्
न करोष्यथवा वाक्यं ममाद्य त्वं नदीपते
अपसारं ततश्चक्रे यावत्तस्याभिवांछितम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परशुरामकृतमहीदानपूर्वकसमुद्रापसारणवृत्तान्तवर्णनंनामा ष्टाषष्टितमोऽध्यायः
क्षेत्रजान्ब्राह्मणेभ्यश्च सुषुवुस्तनया न्वरान् । ते वृद्धिं च समासाद्य क्षेत्रजाः क्षत्रियोपमाः
ततस्ते ब्राह्मणाः सर्वे परिभूतिपदं गताः
रामराम महाबाहो या त्वया वसुधा च नः तस्मान्नो देहि तां भूयो हत्वा तान्क्षत्रियाधमान्
ततो रामः क्रुधाविष्टो भूयस्तैः शवरैः सह
तत्रैव क्षत्रियान्हत्वा रक्तमादाय तद्बहु
प्रददौ ब्राह्मणेभ्यश्च वाजिमेधे धरां पुनः
एवं तेन कृता पृथ्वी सर्वक्षत्त्रविवर्जिता
तर्पिताः पितरश्चैव रुधिरेण महात्मना ६.६९.
एकविंशतिमे प्राप्ते ततश्च पितृतर्पणे
रामराम महाभाग त्यजैतत्कर्म गर्हितम्
यत्त्वया विहितं कर्म नैतदन्यः करिष्यति
तस्मात्तुष्टा वयं वत्स दास्यामश्चित्त वांछितम्। प्रार्थयस्व द्रुतं तस्माद्दुर्लभं त्रिदशैरपि
राम उवाच। पितरो यदि तुष्टा मे यच्छंति यदि वांछितम्। तस्मात्तीर्थमिदं पुण्यं मन्नाम्ना लोकविश्रुतम्। रक्तदोषविनिर्मुक्तं सेवितं वरतापसैः
पितर ऊचुः। पितृतर्पणजा गर्ता त्वया येयं विनिर्मिता। रामह्रद इति ख्यातिं प्रयास्यति जगत्त्रये
यत्र भक्तियुता लोकास्तर्पयिष्यंति वै पितॄन्
कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नरः
अपि प्रेतत्वमापन्नं नरके वा समाश्रितम्
सूत उवाच रामोऽपि च तपस्तेपे तत्रैव क्रोधवर्जितः॥६.६९.