ततस्ते हैहयाः सर्वे शरैराशीविषोपमैः
ब्रह्महत्यासमुत्थेन पातकेन ततश्च ते
न कश्चित्पौरुषं तत्र संप्रदर्शयितुं क्षमः
अथ भग्नं बलं दृष्ट्वा हैहयाधिपतिः क्रुधा शक्नोति नारोपयितुं सुयत्नमपि चाश्रितः
ततश्चाकर्षयामास खङ्गं कोशात्सुनिर्मलम्
गदया निर्जितो रौद्रो रावणो लोकरावणः
नर्मदायाः प्रवाहो यैः सहस्राख्यैः करैः शुभैः ६.६७.
न शस्त्रं शेकुरुद्धर्तुं दैवयोगात्कथंचन
एतस्मिन्नंतरे रामः संप्राप्तः क्रोधमूर्छितः
हैहयाधिपते पाप यैः करैर्जनको मम
ब्रह्मतेजोहतः सोऽपि प्रोक्तस्तेन सुनिष्ठुरम्
ततो भुजवनं तस्य रामः शस्त्रभृतां वरः
ततश्छित्त्वा शिरस्तस्य कुठारेण भृगूद्वहः
पूरयित्वा महाकुम्भाञ्छबरेभ्यो ददौ ततः
हाटकेश्वरजे क्षेत्रे गर्ता मे भ्रातृभिः कृता
प्रक्षिपध्वं द्रुतं गत्वा तस्यां रक्तमिदं महत्
येन तातं निजं भक्त्या तर्पयित्वा विधानतः ६.६७.
इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सहस्रार्जुनवधवर्णनंनाम सप्तषष्टितमोऽ ध्यायः
तत्र निन्युः स्थिता यत्र गर्ता सा पितृसंभवा
भार्गवोऽपि च तं हत्वा रक्तमादाय कृत्स्नशः
न स बालं न वृद्धं च परित्यजति भार्गवः
स्वयं जघान भूपान्स तेषां पार्श्वे तथा परान्
तथैवासृक्प्रगृह्णाति गृह्णापयति चादरात्
एवं निःक्षत्रियां कृत्वा कृत्स्नां पृथ्वीं भृगद्वहः
ततस्तै रुधिरैः स्नात्वा समादाय तिलान्बहून्
प्रत्यक्षं सर्वविप्राणां तथान्येषां तपस्विनाम्
ततो निःक्षत्रिये लोके कृत्वा हयमखं च सः
अथ लब्धवरा विप्रास्तमूचुर्भृगुसत्तमम् ६.६८.
तस्मात्त्वं देहि मे स्थानं कृत्वाऽपसरणं स्वयम्
न करोष्यथवा वाक्यं ममाद्य त्वं नदीपते