विश्वस्तघातकानां च यत्पापं समुदाहृतम्
द्विजद्वेषरतानां हि यत्पापं जायते नृणाम्
परवादरतानां च पापं यच्च दुरात्मनाम्
रात्रौ ये पापकर्माणो भक्षंति दधिसक्तुकान्
वृंताकं मूलकं श्वेतं रक्तं येऽश्नंति गृंजनम्
प्रत्ययं च तदा गत्वा व्याघ्रो वाक्यमथाब्रवीत्
न चैतदवगंतव्यं यदयं वञ्चितो मया
कपिले गच्छ पश्य त्वं तनयं सुतवत्सले 7.3.29.
मातरं भ्रातरं दृष्ट्वा सखीः स्वजनवबांधवान्
अश्रुपूर्णमुखी दीना प्रस्थिता गोकुलं प्रति
वेपमाना भयोद्विग्ना शोकसागरमध्यगा । ततः स्वगोकुलं प्राप्ता रभमाणा मुहुर्मुहुः
तस्याः शब्दं ततः श्रुत्वा ज्ञात्वा वत्सः स्वमातरम्
अकालागमनं तस्या रौद्रं भंभारवं तथा
किमर्थमन्यवेलायां समायाता वदस्व मे
आगताऽहं तव स्नेहात्कुरु तृप्तिं यथेप्सिताम्
अपश्चिममिदं पुत्र दुर्लभं मातृदर्शनम्
व्याघ्रस्य कामरूपस्य दातव्यं जीवितं मया
मयाऽद्य तत्र गंतव्यं मृगराजसमीपतः 7.3.29.
श्लाघ्यं हि मरणं मेऽद्य त्वया सह न संशयः
एकाकिनाऽपि मर्त्तव्यं यस्मान्मया त्वया विना
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति
अथवाऽत्रैव तिष्ठ त्वं शपथाः संतु मे तव
जनन्या विप्रयुक्तस्य जीवितं न हि मे प्रियम्
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः
न चायमन्यभूतानां मृत्युः स्यादन्यमृत्युतः
अपश्चिममिदं पुत्र मातुः सन्देशमुत्तमम्
वने चर सदा वत्स अप्रमादपरो भव
न च लोभेन चर्तव्यं विषमस्थं तृणं क्वचित् 7.3.29.
समुद्रमटवीं युद्धं विशंते लोभमोहिताः
लोभात्प्रमादादाश्वासात्पुरुषो बाध्यते त्रिभिः