क्षीरोदशायिनं विष्णुं शेषपर्य्यंकशायिनम्
नारदाद्यैर्मुनिवरैरुद्गीतगुगौरवम्
क्षीराब्धिजलकल्लोलमदबिन्द्वंकिताम्बरम्
पीतांबरमतिस्मेरविकाशद्भावभावितम्
रत्नवल्लीमिव स्वच्छां श्वेतद्वीपनिवासिनीम् 2.8.6.
मित्रस्य राहुवित्रासनिवर्त्तनमिवापरम्
परां चतुर्मुखोत्पत्तिकल्पसंकल्पनामिव
तस्मिन्नवसरे शंभुः सर्वदेवगणैः सह
मोह तीव्रतमो हारि चन्द्राय हरये नमः
स्फुरत्संविन्मणिशिखां चित्तसंगतिचंद्रिकाम्
हेलोल्लसत्समुत्साहशक्तिं व्याप्तजगत्त्रयाम्
पवनांदोलितांभोजदलपर्वांतवर्त्तिनाम्
नमः सूर्य्यात्मने तुभ्यं संवित्किरणमालिने
नमस्तस्मै यमवते योगिनां गतये सदा
यज्ञाय भुक्तहविष ऋग्यजुःसामरूपिणे 2.8.6.
शांताय धर्मनिधये क्षेत्रज्ञायामृतात्मने घोराय मायाविधये सहस्रशिरसे नमः
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे
कार्यमेयाय बलिने जीवाय परमात्मने
दृप्ताय सिंहवपुषे दैत्यसंहारकारिणे
संसारकारणाज्ञानमहासंतमसच्छिदे
शान्ताय शान्तकल्लोलकैवल्यपददायिने
इन्दीवरदलश्यामं स्फूर्जत्किंजल्कविभ्रमम्
ववर्ष दृष्टिसुधया सर्वान्देवान्कृपान्वितः
दैतेयैर्विक्रमाक्रान्तं पदं समरदर्पितैः
सबलैर्बलहीनानां प्रतापो विजितः परैः 2.8.6.
अयोध्यानगरे गत्वा करिष्ये तप उत्तमम्
भवन्तोऽपि तपस्तीव्रं कुर्वंत्वमलमानसाः
अगस्त्य उवाच इत्युक्त्वांतर्दधे देवान्देवो गरुडवाहनः
गुप्तो भूत्वा यदा विद्वन्सुरतेजोभिवृद्धये
आगतस्य हरेः पूर्वं यत्र हस्ततलाच्च्युतम्