साऽब्रवीद्धन्यतामेतद्धैहयाधिपतेर्बलम् विनाशयितुमारब्धं शितैः शस्त्रैर्निरर्गलम्
१ न कश्चित्पुरुषस्तेषां सम्मुखोऽप्यभवद्रणे
अथ भग्नं बलं दृष्ट्वा वध्यमानं समंततः
तेजोहानिः परा तेऽद्य जाता ब्रह्मवधाद्विभो
यावन्नागच्छते तस्य रामोनाम सुतो बली
नैषा शक्या बलान्नेतुं कामधेनुर्महोदया ६.६६.
ततः स पार्थिवो भीतस्तेषां वाक्याद्विशेषतः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जमदग्निवधवर्णनंनाम षट्षष्टितमोऽध्यायः
फलानि कन्दमूलानि गृहीत्वाऽऽश्रमसम्मुखः
स दृष्ट्वा स्वाश्रमं ध्वस्तं पुलिन्दैर्बहुशो वृतम्
पप्रच्छ किमिदं सर्वं व्याकुलत्वमुपागतम्
केनैषा मामिका धेनुः प्रहारैर्जर्जरीकृता
क्व स मेऽद्य पिता वृद्धो माता च सुतवत्सला
अथ तस्य समाचख्युर्वृत्तांतं सर्वतापसाः
ततस्ते भ्रातरः सर्वे वज्रपातोपमं वचः
मातरं क्षतसर्वाङ्गीं प्राणशेषां व्यथान्विताम्
रुदित्वाथ चिरं कालं विप्रलप्य मुहुर्मुहुः
अथ दाहावसाने ते कृत्वा गर्तां यथोचिताम् ६.६७.
अथान्यैस्तापसैः प्रोक्तो रामः शस्त्रभृतां वरः
अथासौ बहुधा प्रो क्तस्तापसैर्जमदग्निजः
ततस्तानब्रवीद्रामो विनिःश्वस्य मुनीश्वरान्
अपराधं विना तातः क्षत्रियेण हतोमम
तस्मान्निःक्षत्रियामुर्वीं यद्यहं न करोमि वै
पितृमातृवधाज्जातं यत्कृतं तेन पाप्मना
ततस्तस्यैव चान्येषां क्षत्रियाणां दुरात्मनाम् तर्पयिष्यामि रक्तेन पितरं नाहमंभसा
परं विस्मयमापन्ना नोचुः किंचित्ततः परम्
सर्वैस्तैः शबरैः सार्धं पुलिन्दैर्मेदकैस्तथा ६.६७.
तथाऽर्जुनोऽपि तं श्रुत्वा समायातं भृगूत्तमम्
ततस्तु सम्मुखो दृष्टो युद्धार्थं स विनिर्ययौ
अथाभवन्महायुद्धं पुलिन्दानां द्विजोत्तमाः