तस्मान्मेऽस्ति परा प्रीतिर्भक्तिश्च नृपसत्तम
राजा वा ब्राह्मणो वाथ शूद्रो वाप्यंत्यजोऽपि वा
तैरभुक्तैः कथं भोक्तुं युज्यते मम कीर्तय
नात्र चिंता त्वया कार्या मुनिर्निष्किंचनो ह्यहम्
यैषा पश्यति राजेंद्र धेनुर्बद्धा ममांतिके
सूत उवाच ततश्च कौतुकाविष्टः स नृपो द्विजसत्तमाः ६.६६.
ततः संतर्प्य देवांश्च पितॄंश्च तदनंतरम्
उपविष्टस्ततः सार्धं सर्वैर्भृत्यैर्बुभुक्षितैः
ततः स प्रार्थयामास तां धेनुं मुनिसत्तमः
ततः सा सुषुवे धेनुरन्नमुच्चावचं शुभम्
ततः खाद्यं च चव्यं च लेह्यं चोष्यं तथैव च अम्लानि मधुराण्येव तिक्तानि गुणवंति च
एवं प्राप्य परां तृप्तिं तया धेन्वा स भूपतिः
ततो भुक्त्यवसाने तु प्रार्थयामास भूपतिः
कामधेनुरियं ब्रह्मन्नार्हारण्यनिवासिनाम्
येनाऽकरान्करोम्यद्य लोकांस्तस्याः प्रभावतः
एवं कृते तव श्रेयो भविष्यति च सद्यशः ६.६६.
जमदग्निरुवाच होमधेनुरियं राजन्ममैका प्राणसंमता
अहं शतसहस्रं ते यच्छाम्यस्याः कृते द्विज
किं पुनर्होमधेनुर्या प्रभावैरीदृशैर्युता
विमोहाद्ब्राह्मणो यो गां विक्रीणाति धनेच्छया
सुरां पीत्वा द्विजं हत्वा द्विजानां निष्कृतिः स्मृता
बलादपि हरिष्यामि तस्मात्साम्ना प्रदीयताम्
अस्त्रमस्त्रमिति प्रोच्य समुत्तस्थौ सभातलात्
ततस्ते सेवकास्तस्य नृपतेश्चित्तवेदिनः
तस्यैवं वध्यमानस्य जमदग्नेर्महात्मनः
साऽपि नानाविधैस्तीक्ष्णैः खण्डिता वरवर्णिनी ६.६६.
एवं हत्वा स विप्रेन्द्रं जमदग्निं महीपतिः
अथ सा काल्यमाना च धेनुः कोपसमन्विता
तस्याः संरम्भमाणाया वक्त्रमार्गेण निर्गताः
नानाशस्त्रधराः सर्वे यमदूता इवापराः