यस्तत्र त्यजति प्राणान्कृत्वा प्रायोपवेशनम् ॥ न च भूयोऽत्र संसारे स जन्माप्नोति । मानवः
गंडूषमपि तोयस्य यस्तस्य निवसन्पिबेत्
यस्तत्र ब्राह्मणेंद्राणां संप्रयच्छति भोजनम्
त्रुटिमात्रं च यो दद्यात्तत्र स्वर्णं समाहितः
तस्मात्सर्वप्रयत्नेन तत्तीर्थवरमाश्रयेत्
अत्र गाथा पुरा गीता गौतमेन महर्षिणा
गंगायमुनयोः संगे नरः स्नात्वा समाहितः
एतद्वः सर्वमाख्यातं गंगायमुनयोर्मया
यत्र ते पितरस्तेन रुधिरेण प्रतर्पिताः
तत्र भाद्रपदे मासि योऽमावास्यामवाप्य च
यत्तेन पितरस्तत्र रुधिरेण प्रतर्पिताः
पितृणां तर्पणार्थाय मेध्याः संकीर्तिता बुधैः
श्रुतिस्मृतिविरुद्धं च कर्म सद्भिर्विगर्हितम्
तत्कृतं तर्पिता येन पितरो रुधिरेण ते
पिता तस्य पुरा विप्रा जमदग्निर्निपातितः
ततः कोपपरीतेन तेन प्रोक्तं महात्मना
एतस्मात्कारणात्तेन रुधिरेण महात्मना
किंनामा स च भूपालो विस्तराद्वद सूत तत् ॥ ६.६६.
हाटकेश्वरजे क्षेत्रे तत्रासीद्दग्धकल्मषः
चत्वारस्तस्य पुत्राश्च बभूवुर्गुणसंयुताः
कदाचिद्वसतस्तस्य जमदग्नेर्महावने
एतस्मिन्नंतरे प्राप्तो हैहयाधिपतिर्बली
मृगलिप्सुर्वने तस्मिन्भ्रममाण इतस्ततः
अथ तं पार्थिवं दृष्ट्वा स मुनिस्तुष्टिसंयुतः
सोऽपि तं प्रणिपत्योच्चैर्विनयेन समन्वितः
साग्निहोत्र कलत्रस्य परिवारयुतस्य च ॥ ६.६६.
अद्य मे सफलं जन्म जीवितं सफलं च मे
एवमुक्त्वा स राजर्षिर्विश्रम्य सुचिरं ततः
अनुज्ञां देहि मे ब्रह्मन्प्रयास्यामि निजं गृहम्
मनोरथ इव ध्यातः सर्वदेवमयोऽतिथिः