एवं चिन्तयमानस्य भास्करो गगनांगणम्
ततः कंचित्समाश्रित्य स्वल्पच्छायं महीरुहम्
ततो निशामुखे प्राप्ते भूयोऽपि प्रेतराजकम्
तथैव भोजनं चक्रे तस्यातिथ्यसमुद्भवम्
एवं तस्य निशावक्त्रे नित्यमेव स भूपतिः
ततोऽन्यदिवसे प्राप्ते तेन शूद्रेण भूपतिः
विभवस्ते महाभाग प्रणश्यति निशाक्षये अत्र कौतूहलं जातं दृष्ट्वेदं सुविचेष्टितम्
गंगा च यमुना चैव स्थिते तत्र च संगमे
ताभ्यामतिसमीपस्थं शिवस्यायतनं शुभम् ६.६५.
स सदा रात्रिशौचार्थं कपालं जलपूरितम्
तत्प्रभावान्ममेयं हि विभूतिर्जायते निशि
तस्मात्कुरु प्रसादं मे तत्र गत्वा कपालकम्
येन मे जायते मोक्षः प्रेतभावात्सुदारुणात्
तथा तत्रास्ति पूर्वस्यां दिशि तत्तीर्थमुत्तमम्
तत्र गत्वा कुरु श्राद्धं सर्वेषां त्वं महामते
अस्यां नामानि सर्वेषां यथाज्येष्ठं समालिख
वयं त्वां तत्र नेष्यामः सुखोपायेन भद्रक
तथेति समनुज्ञाते तेन शूद्रेण सत्वरम्
दर्शयामासुरेवास्य निधानं भूरिवित्तजम् ६.६५.
ततः प्रणम्य तं भक्त्या कथ यामास विस्तरात्
ततो लब्ध्वा कपालं तच्चूर्णयित्वा समाहितः
एतस्मिन्नंतरे प्रेतो दिव्यरूपवपुर्धरः
प्रसादात्तव मुक्तोऽहं प्रेतत्वाद्दारुणादितः
एतेषामेव सर्वेषामिदानीं श्राद्धमाचर
ततः स विस्मयाविष्टस्तेषामेव पृथक्पृथक्
तेऽपि सर्वे गताः स्वर्गं प्रेतास्तस्य प्रभावतः
ततः शूद्रः स विज्ञाय तत्क्षेत्रं पुण्यवर्ध नम्
गंगायमुनयोः पार्श्वे शूद्रकेश्वरसंज्ञितम्
यस्तयोर्विधिवत्स्नानं कृत्वा पूजयते नरः ६.६५.
स सर्वैः पातकैर्मुक्तः प्रयाति शिव मंदिरम्