कस्यचित्त्वथ कालस्य पण्यबुद्ध्या द्विजोत्तमाः
अथ प्राप्तः क्रमात्सर्वैः स गच्छन्मरुमंडल म् ६.६५.
तत्र रात्रिं समासाद्य श्रांताः पांथाः समन्ततः
ततः प्रत्यूषमासाद्य समुत्थाय च सत्वरम्
स वै मार्गपरिश्रांतो गत्वा निद्रावशं भृशम्
न च तैः स स्मृतः सार्थैर्यैः समं प्रस्थितो गृहात्
एवं गते ततः सार्थे प्रोद्गते सूर्यमंडले
एवं तस्य तृषार्तस्य पतितस्य धरातले
ततः किंचित्ससंज्ञोऽभून्मंदीभूते दिवाकरे
न लक्ष्यते क्वचिन्मार्गो दृश्यते न च मानुषम् ६.६५.
एवं चिन्ताप्रपन्नस्य तस्य शूद्रस्य निर्जने
अथ क्षणेन शुश्राव स गीतं मधुरध्वनि
अथापश्यत्क्षणेनैव प्रेतसंघैः सभावृतम्
ततस्ते पार्श्वगाः प्रेता एके नृत्यं प्रचक्रिरे
अथासौ प्राह तं शूद्रमतिथे कुरु भोजनम्
ततः स भोजनं चक्रे क्षुधार्तश्च पपौ जलम्
ततः प्रेताश्च ते सर्वे प्रेतत्वेन समन्विताः
एवं तेषां समस्तानां विलासैः पार्थिवोचितैः
ततः प्रभाते विमले प्रोद्गते रविमंडले
ततश्च चिन्तयामास किमेतत्स्वप्नदर्शनम् ६.६५.
एवं चिन्तयमानस्य भास्करो गगनांगणम्
ततः कंचित्समाश्रित्य स्वल्पच्छायं महीरुहम्
ततो निशामुखे प्राप्ते भूयोऽपि प्रेतराजकम्
तथैव भोजनं चक्रे तस्यातिथ्यसमुद्भवम्
एवं तस्य निशावक्त्रे नित्यमेव स भूपतिः
ततोऽन्यदिवसे प्राप्ते तेन शूद्रेण भूपतिः
विभवस्ते महाभाग प्रणश्यति निशाक्षये अत्र कौतूहलं जातं दृष्ट्वेदं सुविचेष्टितम्
गंगा च यमुना चैव स्थिते तत्र च संगमे
ताभ्यामतिसमीपस्थं शिवस्यायतनं शुभम् ६.६५.
स सदा रात्रिशौचार्थं कपालं जलपूरितम्