एवं तस्य नरेंद्रस्य प्रदक्षिणरतस्य च
कस्यचित्त्वथ कालस्य स राजा तत्र संगतः
अग्रस्थांस्तान्द्विजान्सर्वान्नमश्चक्रे समाहितः
ततस्तैः सहितैस्तत्र सहासीनः कथाः शुभाः
ततः कस्मिन्कथांते स पृष्टस्तैर्द्विजसत्तमैः
राजन्पृच्छामहे सर्वे त्वां वयं कौतुकान्विताः ६.६४.
मासिमासि सदाष्टम्यां त्वं शुक्लायां सुदूरतः
यत्नेनान्याः परित्यज्य सर्वाः पूजादिकाः क्रियाः
रहस्यमपि वक्तव्यं युष्माकं सांप्रतं मया
अहमास शुकः पूर्वमस्मिन्नायतने शुभे
तत्र निर्गच्छतो नित्यं कुर्वतश्चप्रवेशनम्
ततः कालेन मे मृत्युः संजातोऽत्रैव मंदिरे
एतस्मात्कारणाद्दूरात्समभ्येत्य प्रदक्षिणाम्
पुरा भक्तिविहीनेन कुलाये वसता मया
अधुना श्रद्धया युक्तो यत्करोमि प्रदक्षिणाम्
साधुवादं तथा चक्रुस्तस्य भूपस्य हर्षिताः ६.६४.
ततः स पार्थिवः सर्वान्प्रणम्य द्विजसत्तमान्
अधुना श्रद्धया युक्तो यः करोति प्रदक्षिणाम्
ततः प्रभृति ते विप्राः सर्वे भक्तिपुरःसराः
प्राप्ताश्च परमां सिद्धिं वांछितां तत्प्रभावतः
तस्मात्सर्वप्रयत्नेन तां देवीमिह संश्रयेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारीदुर्गामाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः
यत्रानर्तो नृपः सिद्धः सुहयो नाम नामतः
तेनैव भूभुजा तत्र लिंगं संस्थापितं शुभम्
तत्रांगारकषष्ठ्यां यस्तडागे स्नानमाचरेत्
सर्वं कथय तत्सूत सर्वं वेत्सि न संशयः
सर्वारिभिर्हतो युद्धे पलायनपरायणः
अथ तस्य कपालं च कापालिक व्रतान्वितः
आनर्तेश्वरसांनिध्ये वसमानो वने स्थितः
तडागोत्थेन संपूर्णं रात्रौ कृत्वा प्रमुंचति धनी भृत्यसमोपेतः सदा पुण्यपरायणः