यस्तामभ्यर्चयेत्सम्यङ्महानवमिवासरे
भूतप्रेतपिशाचेभ्यः शत्रुतश्च विशेषतः
यंयं काममभिध्यायञ्छुक्लाष्टम्यां नरः शुचिः
निष्कामः सुखमाप्नोति मोक्षं नास्त्यत्र संशयः
तामाराध्य गताः पूर्वं सिद्धिं भूरिर्महीभुजः
यस्तस्याः श्रद्धयोपेतः प्रकरोति प्रदक्षिणाम् ६.६४,
तस्या आयतने पूर्वमाश्चर्यमभवन्महत्
आसीच्चित्ररथोनाम पूर्वं पार्थिवसत्तमः
शुक्लाष्टम्यां सदा भक्त्या स तस्याः श्रद्धयान्वितः
ततः प्रणम्य तां देवीं संप्रयाति पुनर्गृहम्
एवं तस्य नरेंद्रस्य प्रदक्षिणरतस्य च
कस्यचित्त्वथ कालस्य स राजा तत्र संगतः
अग्रस्थांस्तान्द्विजान्सर्वान्नमश्चक्रे समाहितः
ततस्तैः सहितैस्तत्र सहासीनः कथाः शुभाः
ततः कस्मिन्कथांते स पृष्टस्तैर्द्विजसत्तमैः
राजन्पृच्छामहे सर्वे त्वां वयं कौतुकान्विताः ६.६४.
मासिमासि सदाष्टम्यां त्वं शुक्लायां सुदूरतः
यत्नेनान्याः परित्यज्य सर्वाः पूजादिकाः क्रियाः
रहस्यमपि वक्तव्यं युष्माकं सांप्रतं मया
अहमास शुकः पूर्वमस्मिन्नायतने शुभे
तत्र निर्गच्छतो नित्यं कुर्वतश्चप्रवेशनम्
ततः कालेन मे मृत्युः संजातोऽत्रैव मंदिरे
एतस्मात्कारणाद्दूरात्समभ्येत्य प्रदक्षिणाम्
पुरा भक्तिविहीनेन कुलाये वसता मया
अधुना श्रद्धया युक्तो यत्करोमि प्रदक्षिणाम्
साधुवादं तथा चक्रुस्तस्य भूपस्य हर्षिताः ६.६४.
ततः स पार्थिवः सर्वान्प्रणम्य द्विजसत्तमान्
अधुना श्रद्धया युक्तो यः करोति प्रदक्षिणाम्
ततः प्रभृति ते विप्राः सर्वे भक्तिपुरःसराः
प्राप्ताश्च परमां सिद्धिं वांछितां तत्प्रभावतः