ततस्तुष्टो महादेवस्तस्य संदर्शनं गतः
चन्द्र उवाच परं क्षीणोऽस्मि देवेश यक्ष्मणाहं पदांतिकम्
तस्य तद्वचनं श्रुत्वा भगवान्वृषभध्वजः
एष चंद्रस्त्वया शप्तो जामाता न कृतं शुभम् ६.६३.
नाकरोन्मे पुरः प्रोच्य करिष्यामीत्य सत्यवाक्
तेन शप्तस्तु कोपेन सुतार्थे वृषभध्वज
समाः संवीक्षते नित्यं मम वाक्यादसंशयम्
तस्मात्पक्षं क्षयं यातु पक्षं वृद्धिं प्रगच्छतु
ततो दक्षस्तथेत्युक्त्वा जगाम निजमन्दिरम्
भूयोऽपि प्रार्थयाभीष्टं मत्तस्त्वं शशलांछन
चन्द्र उवाच यदि तुष्टोऽसि देवेश यदि देयो वरो मम संनिधानं त्वया कार्यं लोकानां हित काम्यया
सोमवारेण सांनिध्यं करिष्ये वचनात्तव
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः
सुता दक्षस्य विप्रेंद्रा शंकरस्य वचः स्मरन् ६.६३.
एवं सोमेश्वरास्तत्र बभूवुर्द्विजसत्तमाः
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सोमनाथोत्पत्तिमाहात्म्यवर्णनंनाम त्रिषष्टितमोऽध्यायः
चमत्कारनरेंद्रेण स्थापिता श्रद्धया पुरा
यया स महिषः पूर्वं निहतो दानवो रणे
यदा तन्निर्मितं तत्र पुरं तेन महात्मना
पुरस्य तस्य रक्षार्थं तथा तत्पुरवासिनाम्
यस्तामभ्यर्चयेत्सम्यङ्महानवमिवासरे
भूतप्रेतपिशाचेभ्यः शत्रुतश्च विशेषतः
यंयं काममभिध्यायञ्छुक्लाष्टम्यां नरः शुचिः
निष्कामः सुखमाप्नोति मोक्षं नास्त्यत्र संशयः
तामाराध्य गताः पूर्वं सिद्धिं भूरिर्महीभुजः
यस्तस्याः श्रद्धयोपेतः प्रकरोति प्रदक्षिणाम् ६.६४,
तस्या आयतने पूर्वमाश्चर्यमभवन्महत्
आसीच्चित्ररथोनाम पूर्वं पार्थिवसत्तमः
शुक्लाष्टम्यां सदा भक्त्या स तस्याः श्रद्धयान्वितः
ततः प्रणम्य तां देवीं संप्रयाति पुनर्गृहम्