शशाप शर्वरीनाथं गत्वा तत्संनिधौ ततः
यस्मात्पाप न मे वाक्यं त्वया धर्मसमन्वितम्
एवमुक्त्वा ययौ दक्षश्चन्द्रोऽपि द्विजसत्तमाः
ततोऽसौ कृशतां प्राप्तः संपरित्यज्य रोहिणीम् ६.६३.
क्षयव्याधिप्रणाशाय पृच्छ मानश्चिकित्सकान्
तथापि मुच्यते नैव यक्ष्मणा स निशापतिः
ततो वैराग्यमापन्नस्तीर्थयात्रापरायणः
अथासौ भ्रममाणस्तु तीर्थान्यायतनानि च
तत्र स्नात्वा शुचिर्भूत्वा प्रभासं वीक्ष्य रात्रिपः
अपश्यद्रोमकंनाम स मुनि संशितव्रतम्
तं दृष्ट्वा स प्रणम्योच्चै स्ततः प्रोवाच सादरम्
परिक्षीणोऽस्मि विप्रेंद्र क्षयव्याधिप्रभावतः
मया चिकित्सकाः पृष्टास्तैरुक्तं भेषजं कृतम्
यदि नैवोपदेशं मे कञ्चित्त्वं संप्रदास्यसि ६.६३.
शक्यते किं पुनस्तस्य दक्षस्यामिततेजसः
तस्मादत्रोपदेशं ते प्रयच्छामि सुसंमतम्
नादेयं किंचिदस्तीह देवदेवस्य शूलिनः
अष्टषष्टिषु तीर्थेषु सत्यं वासः सदा क्षितौ
आराधय ततो नित्यं श्रद्धापूतेन चेतसा
तस्मिन्प्रभासके क्षेत्रे दिव्यलिंगानि शूलिनः
ततस्तुष्टो महादेवस्तस्य संदर्शनं गतः
चन्द्र उवाच परं क्षीणोऽस्मि देवेश यक्ष्मणाहं पदांतिकम्
तस्य तद्वचनं श्रुत्वा भगवान्वृषभध्वजः
एष चंद्रस्त्वया शप्तो जामाता न कृतं शुभम् ६.६३.
नाकरोन्मे पुरः प्रोच्य करिष्यामीत्य सत्यवाक्
तेन शप्तस्तु कोपेन सुतार्थे वृषभध्वज
समाः संवीक्षते नित्यं मम वाक्यादसंशयम्
तस्मात्पक्षं क्षयं यातु पक्षं वृद्धिं प्रगच्छतु
ततो दक्षस्तथेत्युक्त्वा जगाम निजमन्दिरम्
भूयोऽपि प्रार्थयाभीष्टं मत्तस्त्वं शशलांछन