स्मरंती गोकुले बद्धं स्वसुतं क्षीरपायिनम्
विद्यते कस्यचिन्मूर्खे स्मरेष्टां देवतां ततः
कपिलोवाच स्वजीवितभयाद्व्याघ्र न रोदिमि कथंचन
नाद्यापि स तृणा न्यत्ति तेनाहं शोकविक्लवा
पाययित्वा सुतं बालं दृष्ट्वा पृष्ट्वा जनं स्वकम्
पुनरागमनं यत्ते न च तच्छ्रद्दधाम्यहम्
भयान्मां भाषसे चैवं नास्ति प्राणसमं भयम्
प्रत्ययो यदि ते भूयान्मां मुञ्च त्वं मृगाधिप ॥ 7.3.29.
ततोऽहं प्रत्ययं गत्वा मोचयिष्यामि वा न वा
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
गुरुद्रोहरतानां च यत्पापं जायते नृणाम्
यत्पापं ब्राह्मणं हत्वा गां च हत्वा प्रजायते
मित्रद्रोहे च यत्पापं यत्पापं गुरुवंचके
यो गां स्पृशति पादेन ब्राह्मणं पावकं तथा
कूपारामतडागानां यो भंगं कुरुत नरः
कृतघ्नस्य च यत्पापं सूचकस्य च यद्भवेत्
मद्यमांसरतानां च यत्पापं जायते नृणाम्
राजपैशुन्यकर्तॄणां यत्पापं जायते नृणाम् 7.3.29.
वेदविक्रयकर्तॄणां यत्पापं संप्रजायते
दीयमानं द्विजातीनां निवारयति योऽल्पधीः
विश्वस्तघातकानां च यत्पापं समुदाहृतम्
द्विजद्वेषरतानां हि यत्पापं जायते नृणाम्
परवादरतानां च पापं यच्च दुरात्मनाम्
रात्रौ ये पापकर्माणो भक्षंति दधिसक्तुकान्
वृंताकं मूलकं श्वेतं रक्तं येऽश्नंति गृंजनम्
प्रत्ययं च तदा गत्वा व्याघ्रो वाक्यमथाब्रवीत्
न चैतदवगंतव्यं यदयं वञ्चितो मया
कपिले गच्छ पश्य त्वं तनयं सुतवत्सले 7.3.29.
मातरं भ्रातरं दृष्ट्वा सखीः स्वजनवबांधवान्
अश्रुपूर्णमुखी दीना प्रस्थिता गोकुलं प्रति