एतन्नः सर्वमाचक्ष्व विस्तरेण महामते
उपयेमे निशानाथो देवाग्निगुरुसंनिधौ
नक्षत्रसंज्ञिता लोके कीर्त्यंते या द्विजोत्तमैः
अथ तासां समस्तानां मध्ये तस्य निशापतेः
ततः समं परित्यज्य सर्वास्ता दक्षकन्यकाः ६.६३.
ततस्ताः काम संतप्ता दौर्भाग्येन समन्विताः
वयं यस्मै त्वया दत्ताः पत्न्यर्थं तात पापिने
सर्वास्ताः स्वयमादाय जगाम शशिसंनिधौ
ततः प्रोवाच सोऽन्वक्षं तासां दक्षः प्रजापतिः
किमिदं युज्यते कर्तुं त्वया रात्रिपतेऽधम
ऋतुकालेऽपि संप्राप्ते सुता मम समुद्भवाः
ऋतु स्नातां तु यो भार्यां संनिधौ नोपगच्छति
तस्य तद्वचनं श्रुत्वा सलज्जो रात्रिनायकः प्रोवाचाधोमुखो दक्षं प्रकरिष्ये वचस्तव
ततो हृष्टमना दक्षः सुताः सर्वा हिमद्युते ६.६३.
३ चन्द्रोऽपि पूर्ववत्सर्वास्ताः परित्यज्य दक्षजाः
अथ ता दुःखिता भूयो जग्मुर्यत्र पिता स्थितः
एतत्तात महद्दुःखमस्माकं वर्तते हृदि
यत्पुनस्त्वं कृतस्तेन कामुकेन दुरात्मना
तद्दुःखं न वयं शक्ता हृदि धर्तुं कथंचन
विशेषात्तव वाक्येन निषिद्धो रात्रिनायकः दौर्भाग्यदुःखसंतप्तास्त्यजामो येन जीवितम्
शशाप शर्वरीनाथं गत्वा तत्संनिधौ ततः
यस्मात्पाप न मे वाक्यं त्वया धर्मसमन्वितम्
एवमुक्त्वा ययौ दक्षश्चन्द्रोऽपि द्विजसत्तमाः
ततोऽसौ कृशतां प्राप्तः संपरित्यज्य रोहिणीम् ६.६३.
क्षयव्याधिप्रणाशाय पृच्छ मानश्चिकित्सकान्
तथापि मुच्यते नैव यक्ष्मणा स निशापतिः
ततो वैराग्यमापन्नस्तीर्थयात्रापरायणः
अथासौ भ्रममाणस्तु तीर्थान्यायतनानि च
तत्र स्नात्वा शुचिर्भूत्वा प्रभासं वीक्ष्य रात्रिपः
अपश्यद्रोमकंनाम स मुनि संशितव्रतम्