तस्मादत्राऽऽश्रमे साकं त्वया स्थेयं सदैव तु
श्रीदेव्युवाच अद्यप्रभृत्यहं भद्रे श्रेष्ठेऽस्मिन्नाश्रमे शुभे
माघशुक्लतृतीयायां या ऽत्र स्नानं करिष्यति
अपि कृत्वा महापापं नारी वा पुरुषोऽथवा
अत्र ये फलदानं च प्रकरिष्यंति मानवाः
अपि हत्वा स्त्रियं मर्त्यो योऽत्र स्नानं करिष्यति
या तत्र कन्यका भद्रे स्नानं भक्त्या करि ष्यति
ततश्च तत्क्षणाज्जाता दिव्यरूपवपुर्द्धरा
वृद्धत्वेन परित्यक्ता दिव्यमाल्यानुलेपना
ततस्तां सा समादाय विधाय निजकिंकरीम् ६.६२.
ततःप्रभृति तत्तीर्थं शर्मिष्ठातीर्थमुच्यते
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत्
एतत्पवित्रमायुष्यं सर्व पातकनाशनम्
यश्चैतत्प्रातरुत्थाय सदा पठति मानवः
तथा पर्वणि संप्राप्ते यश्चैतत्पठते नरः
अस्ति ख्यातं त्रिलोकेऽत्र स्वयं सोमेन निर्मितम्
सोमवारेण यस्तत्र वत्सरं यावदर्चयेत्
यक्ष्मणापि न संदेहः किं पुनः कुष्ठपूर्वकैः
तदाराध्य पुरा सोमः क्षयव्याधिसमन्वितः
क्षयव्याधिः पुरा जाता उपशांतिं कथं गतः
एतन्नः सर्वमाचक्ष्व विस्तरेण महामते
उपयेमे निशानाथो देवाग्निगुरुसंनिधौ
नक्षत्रसंज्ञिता लोके कीर्त्यंते या द्विजोत्तमैः
अथ तासां समस्तानां मध्ये तस्य निशापतेः
ततः समं परित्यज्य सर्वास्ता दक्षकन्यकाः ६.६३.
ततस्ताः काम संतप्ता दौर्भाग्येन समन्विताः
वयं यस्मै त्वया दत्ताः पत्न्यर्थं तात पापिने
सर्वास्ताः स्वयमादाय जगाम शशिसंनिधौ
ततः प्रोवाच सोऽन्वक्षं तासां दक्षः प्रजापतिः
किमिदं युज्यते कर्तुं त्वया रात्रिपतेऽधम