यस्याः प्राप्तं त्वयैश्वर्यं परा तां तोषयाम्यहम्
तथापि वधयोग्यां मां मन्यसे विक्षिपायुधम्
तच्छुत्वा कुरु यच्छ्रेयो विचिन्त्य मनसा ततः मां निषूदयितुं शक्ताः पार्वत्यां शरणं गताम्
तस्माद्द्रुतं दिवं गच्छ मा त्वं कोपं वृथा कुरु
चिन्तयामास तदिदं मरणे कृतनिश्चया
न प्रसीदति मे देवी यस्मात्पर्वतनंदिनी
तन्नूनं ज्वलनं दीप्तं सेवयिष्यामि सत्वरम्
दुग्धकुंदेन्दुसंकाशं संजातं सहसा वृषम्
चतुर्भुजां प्रसन्नास्यां दिव्यरूपसमन्विताम्
ततः सम्यक्समालोक्य ज्ञात्वा तां पर्वतात्मजाम् ६.६२.
नमस्ते देवदेवेशि नमस्ते सर्ववासिनि
शक्रादयोऽपि देवास्ते परमार्थेन नो विदुः
यस्याः सर्वं महीव्योमजलाग्निपवनात्मकम्
न तस्या जन्मनि ब्रह्मा न नाशाय महेश्वरः
तथाष्टगुणमैश्वर्यं यस्याः स्वाभाविकं परम्
यस्या रूपाण्यनेकानि सम्यग्ध्यानपरायणाः
हृदि संकल्प्य यद्रूपं ध्यानेनार्चंति योगिनः
तां देवीं मानुषी भूत्वा कथं स्तौमि महेश्वरीम्
असंदिग्धं प्रदास्यामि यत्ते हृदि सदा स्थितम्
तत्किं तेन करिष्यामि सांप्रतं जरयावृता ॥ ६.६२.
तस्मादत्राऽऽश्रमे साकं त्वया स्थेयं सदैव तु
श्रीदेव्युवाच अद्यप्रभृत्यहं भद्रे श्रेष्ठेऽस्मिन्नाश्रमे शुभे
माघशुक्लतृतीयायां या ऽत्र स्नानं करिष्यति
अपि कृत्वा महापापं नारी वा पुरुषोऽथवा
अत्र ये फलदानं च प्रकरिष्यंति मानवाः
अपि हत्वा स्त्रियं मर्त्यो योऽत्र स्नानं करिष्यति
या तत्र कन्यका भद्रे स्नानं भक्त्या करि ष्यति
ततश्च तत्क्षणाज्जाता दिव्यरूपवपुर्द्धरा
वृद्धत्वेन परित्यक्ता दिव्यमाल्यानुलेपना
ततस्तां सा समादाय विधाय निजकिंकरीम् ६.६२.