ततः सुवर्णमादाय त्यक्त्वा तां रुधिरप्लुताम्
यत्तया पार्वती स्पृष्टा ततो वै खण्डशः कृता ६.६२.
समुद्रप्रतिमं चारु पद्मिनीखंडमंडितम्
सेवितं बहुभिर्हंसैर्बकैश्चक्रैः समंततः
प्रासादं तत्समीपस्थं साधु दृष्टिमनोहरम्
ततस्तत्र तपस्तेपे गौरीं संस्थाप्य भक्तितः
प्रातः स्नात्वा तु हेमंते गौरीं संपूज्य भक्तितः
ततश्च शिशिरे प्राप्ते सायं प्रातः समाहिता
वसंते नृत्यगीतैश्च तोषयामास पार्वतीम्
पञ्चाग्निसाधका ग्रीष्मे फलाहारं तपस्विनी
वर्षासु च जलाहारा भूत्वा सा विष कन्यका ६.६२.
एवमाराधयंत्याश्च तस्या देवीं गिरेः सुताम्
मुखं वलिभिराक्रान्तं पलितैरंकितं शिरः
कस्यचित्त्वथ कालस्य तत्परीक्षार्थमेव सा
सुधावदातं सूर्याभं कैलासशिखरोपमम्
समास्थाय वृता स्त्रीभिर्देवानां सर्वतो दिशम्
पांडुरेणातपत्रेण ध्रियमाणेन मूर्धनि
गन्धर्वैर्गीयमानासीत्ततः प्रोवाच सादरम्
अनेन तपसा तुष्टा पुष्कलेन तवाधुना त्रैलोक्येऽपि स्वयं प्राप्ता दयां कृत्वा तवोपरि
त्वया महत्तपस्तप्तं ध्यायंत्या हरवल्लभाम् ६.६२.
नमस्कृत्वाऽथ तामूचे कृतांजलिपुटा स्थिता
तथान्यासामपींद्राणि देवतानामसंशयम्
अप्यहं नरकं रौद्रं प्रगच्छामींद्रवल्लभे
अनादिमध्यपर्य्यन्ता ज्ञानैश्वर्यसम न्विता
यामाराधयते विष्णुर्ब्रह्मा रुद्रश्च वासवः
यया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्
ममाज्ञां पालयन्ति स्म देवदानवपन्नगाः
किंनरा गुह्का यक्षाः किं पुनर्मर्त्यधर्मिणः
तन्नूनं वज्रघातेन चूर्णयिष्यामि ते शिरः
धैर्यमालंब्य तां प्राह भूय एव सुरेश्वरीम् ६.६२.