धेनुं तया समालापात्प्रकृतिं यास्यसे पुनः
एवमुक्त्वा मृगी राजाग्रतः प्राणैर्व्ययुज्यत
अथाऽसौ पार्थिवः सद्यो रौद्रास्यः समजायत भक्षयामास तां सेनामात्मीयां क्रोधमूर्च्छितः
ततस्ते सैनिका राजन्हतशेषाः सुदुःखिताः
निवेदयन्तो वृत्तांतं चत्वरेषु त्रिकेषु च
तच्छ्रुत्वा वचनं तस्य पुत्रं भूरिपराक्रमम्
कस्यचित्त्वथ कालस्य तस्मिन्सानौ नृपोत्तम
तत्रैका गौः परिभ्रष्टा स्वयूथात्तृणतृष्णया ॥ 7.3.29.
अच्छिन्नाग्रतृणं या तु सदा भक्षयते नृप
तत्राससाद तां व्याघ्रो दंष्ट्रोत्कटमुखावहः
स्मरंती गोकुले बद्धं स्वसुतं क्षीरपायिनम्
विद्यते कस्यचिन्मूर्खे स्मरेष्टां देवतां ततः
कपिलोवाच स्वजीवितभयाद्व्याघ्र न रोदिमि कथंचन
नाद्यापि स तृणा न्यत्ति तेनाहं शोकविक्लवा
पाययित्वा सुतं बालं दृष्ट्वा पृष्ट्वा जनं स्वकम्
पुनरागमनं यत्ते न च तच्छ्रद्दधाम्यहम्
भयान्मां भाषसे चैवं नास्ति प्राणसमं भयम्
प्रत्ययो यदि ते भूयान्मां मुञ्च त्वं मृगाधिप ॥ 7.3.29.
ततोऽहं प्रत्ययं गत्वा मोचयिष्यामि वा न वा
तेन पापेन लिप्यामि यद्यहं नागमे पुनः
गुरुद्रोहरतानां च यत्पापं जायते नृणाम्
यत्पापं ब्राह्मणं हत्वा गां च हत्वा प्रजायते
मित्रद्रोहे च यत्पापं यत्पापं गुरुवंचके
यो गां स्पृशति पादेन ब्राह्मणं पावकं तथा
कूपारामतडागानां यो भंगं कुरुत नरः
कृतघ्नस्य च यत्पापं सूचकस्य च यद्भवेत्
मद्यमांसरतानां च यत्पापं जायते नृणाम्
राजपैशुन्यकर्तॄणां यत्पापं जायते नृणाम् 7.3.29.
वेदविक्रयकर्तॄणां यत्पापं संप्रजायते
दीयमानं द्विजातीनां निवारयति योऽल्पधीः