ततश्च दशमे प्राप्ते शत्रुभिः स महीपतिः
ततस्तस्य नरेन्द्रस्य हतशेषाश्च ये नराः
तेपि शत्रुगणाः सर्वे संप्रहृष्टा जिगीषवः
एतस्मिन्नंतरे पौराः सर्वे शोकपरायणाः
अस्या दोषेण पापाया मृतश्च स महीपतिः ६.६२.
तस्मादद्यापि पापैषा वध्यतामाशु कन्यका
वैराग्यं परमं गत्वा निंदां चक्रे तथात्मनः
अथ दृष्टं तया क्षेत्रं हाटकेश्वरजं महत्
अथ तस्याः स्मृतिर्जाता पूर्वजन्मसमुद्भवा
तत्प्रभावादहं जाता सुपुण्ये नृपमंदिरे
सूत उवाच अन्यदेहांतरे ह्यासीच्चंडाली सा विगर्हिता
अथ सा भ्रममाणाऽत्र क्षेत्रे प्राप्ता तृषार्दिता ६.६२.
अथापश्यत्स्तोकजलां सा तत्र लघुकूपिकाम्
ततो दयां समाश्रित्य त्यक्त्वा स्नेहं सुतोद्भवम्
जलाभावे तथा सा च समस्तैर्बालकैः सह
ततो नृपगृहे जाता तत्प्रभावाद्द्विजोत्तमाः
स्वकुलोच्छेदनकरी सर्वं सूत ब्रवीहि नः
देवतायतने दृष्टा गौरी हेममयी शुभा
ततस्तां विजने प्राप्य गत्वा देशांतरं मुदा तावदन्वेषमाणास्तां संप्राप्ता नृपसेवकाः
अथ ते तां समालोक्य भर्त्सयित्वा मुहुर्मुहुः
ततः सुवर्णमादाय त्यक्त्वा तां रुधिरप्लुताम्
यत्तया पार्वती स्पृष्टा ततो वै खण्डशः कृता ६.६२.
समुद्रप्रतिमं चारु पद्मिनीखंडमंडितम्
सेवितं बहुभिर्हंसैर्बकैश्चक्रैः समंततः
प्रासादं तत्समीपस्थं साधु दृष्टिमनोहरम्
ततस्तत्र तपस्तेपे गौरीं संस्थाप्य भक्तितः
प्रातः स्नात्वा तु हेमंते गौरीं संपूज्य भक्तितः
ततश्च शिशिरे प्राप्ते सायं प्रातः समाहिता
वसंते नृत्यगीतैश्च तोषयामास पार्वतीम्
पञ्चाग्निसाधका ग्रीष्मे फलाहारं तपस्विनी