यस्मिन्सा जायते हर्म्ये षण्मासाभ्यंतरे च तत्
सेयं तव सुता राजन्यथोक्ता विष कन्यका
तस्मादिमां परित्यज्य सुखी भव नराधिप ६.६१.
अन्यदेहोद्भवं कर्म फलिष्यति तथापि मे
शुभं वा यदि वा पापं न तु शक्यं प्ररक्षितुम्
येनयेन शरीरेण यद्यत्कर्म करोति यः
यस्यां यस्यामवस्थायां क्रियतेऽत्र शुभाशुभम्
न नश्यति पुराकर्म कृतं सर्वेंद्रियैरिह
आयुः कर्म च वित्तं च विद्या निधनमेव च
यथा वृक्षेषु वल्लीषु कुसुमानि फलानि च
येनैव यद्यथा पूर्वं कृतं कर्म शुभाशुभम्
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
अन्यदेहकृतं कर्म न कश्चित्पुरुषो भुवि ६.६१.
अन्यथा शास्त्रगर्भिण्या धिया धीरो महीयते
स्वकृतान्युपतिष्ठंति सुखदुःखानि देहिनाम्
सुशीघ्रमभिधावन्तं निजं कर्मानुधावति
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम्
येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा
प्रमाणं कर्मभूतानां सुखदुःखोपपादने
तैलक्षये यथा दीपो निर्वाणमधिगच्छति
न मन्त्रा न तपो दानं न तीर्थं न च संयमः
अन्नपानानि जीर्यंति यत्र भक्ष्यं च भक्षितम् ६.६१.
तस्मात्कर्मकृतं सर्वं देहिनामत्र जायते
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये विषकन्यकोत्पत्तिवर्णनंनामैकषष्टितमोऽध्यायः
नात्यजत्तां तथोक्तोऽपि दैवज्ञैर्विषकन्यकाम्
शर्मणष्ठीवनं यस्मात्तया स्वपितुराहितम्
एतस्मिन्नंतरे तस्य शत्रवः पृथिवीपतेः ॥ सर्वतः पीडयामास राष्ट्रं क्रोधसमन्विताः
अथा सौ पार्थिवः क्रुद्धः स्वसैन्यपरिवारितः
ततः संप्राप्य ताञ्छत्रूंश्चकार स महाहवम्