ततः संशोषितस्तेन स समुद्रो महात्मना
माहित्थं साधितं यस्मात्त्वया मे सकलं शुभम्
चमत्कारपुरक्षेत्रे पूजां प्राप्स्यस्यनुत्तमाम्
पूजयिष्यति वृद्धिं च सर्वकालमवाप्स्यति
द्विजानां रक्षणार्थाय नित्यं संनिहिता भव
ययाऽयं चलितः शैलः स्वशक्त्या निश्चलीकृतः षष्ठ्यां तं सूर्यवारेण दृष्ट्वा पापात्प्रमुच्यते
न शत्रूणां पराभूतिं प्रयास्यति यथार्जुनः ६.६०.
तथा गोवर्धनधरं तत्र देवं जनार्दनम् तस्य गावः प्रभूताः स्युर्नीरोगा द्विसत्तमाः
नरसिंहवपुः साक्षात्तथा देवो हरिः स्वयम् सर्वविघ्नहरश्चैव स्थापितश्चार्जुनेन हि
यस्तं पूजयते भक्त्या चतुर्थ्यां मोदकाशनैः तत्र स्थितो द्विजेंद्राणां हिताय द्विजसत्तमाः
यस्तमाथर्वणैर्मंत्रैः पूजयेद्द्वादशीदिने
तथा तत्र द्विजश्रेष्ठा नरनारायणावुभौ
पूजयेच्च द्विजश्रेष्ठा द्वादश्या दिवसे स्वयम्
तीर्थयात्राकृतारंभः कुन्तीपुत्रो धनंजयः
दृष्ट्वा तत्पावनं क्षेत्रं तीर्थपूगप्रपूरितम्
नरनारायणौ देवौ तस्याग्रे स्थापितौ ततः
नरसिंहं तथैवान्यं श्रद्धया परया युतः ६.६०.
ततो विप्रान्समाहूय सर्वांस्तान्पुरसंभवान्
मया संस्थापितः सूर्यः सर्वरोगक्षयावहः
वयं सर्वे करिष्यामस्तवश्रेयोऽभिवर्धनम्
ततोऽर्जुनः प्रहृष्टात्मा तेभ्यो दत्त्वा धनं बहु
माहात्म्यं ब्राह्मणश्रेष्ठाः शृण्वतां पापनाशनम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नरादित्यमाहात्म्यवर्णनंनाम षष्टितमोऽध्यायः
कथं जातं महाभाग किंप्रभावं तु तद्वद
ब्रह्मण्यश्च शरण्यश्च सर्वलोकहिते रतः
तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी
अथ तस्यां समुत्पन्ना प्राप्ते वयसि पश्चिमे
तत आनीय विप्रान्स ज्योतिर्ज्ञानविचक्षणान्
चंद्रे वापि चतुर्दश्यां सा भवेद्विषकन्यका
यस्तस्याः प्रतिगृह्णाति पाणिं पार्थिवसत्तम