कृताश्च शपथास्तत्र स्नात्वा भागीरथीजले
पुनश्च रुचिरं हास्यं कृत्वा तेन समं बहु ६.५८.
स त्यक्तो बांधवैः सर्वैः कलत्रैरपि वल्लभैः
जातश्च तत्प्रभावेन कुष्ठेन परिवर्जितः
न कार्यः शपथस्तस्मात्तस्याग्रेऽपि लघुर्द्विजाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शिवगंगामाहात्म्यवर्णनंनाम अष्टपञ्चाशत्तमोऽध्यायः
शिवश्च परया भक्त्या तथा विष्णुर्द्विजोत्तमाः
यस्तान्पूजयते भक्त्या मानुषो भक्तितस्ततः
हस्तिनापुरसंस्थेन विदुरेण पुरा द्विजाः
अपुत्रस्य गतिर्लोके कीदृक्संजायते परे
द्वादशानामपि तथा यद्येकोऽपि न विद्यते
औरसः क्षेत्रजश्चैव क्रयक्रीतश्च पालितः कानीनश्च सहोढश्च अश्वत्थो ब्रह्मवृक्षकः
एतेषामपि यद्येकः पुरुषाणां न जायते
सूत उवाच तच्छ्रुत्वा वचनं तस्य गालवस्य महात्मनः
तप्तस्तं गालवः प्राह मा त्वं दुःखपदं व्रज
तस्मात्प्राप्स्यसि निःशेषं फलं पुत्रसमुद्भवम् ६.५९.
हाटकेश्वरजे क्षेत्रे सर्ववृद्धिशुभोदये
तत्स्थानं गालवोद्दिष्टं हर्षेण महतान्वितः
वैवाहिकेन विधिना कृतकृत्यो बभूव ह
स दृष्ट्वा कुरुवृद्धस्य कीर्तनानि महात्मनः
ततो माहेश्वरं लिंगं वटाधस्ताद्विधाय सः
निवेश्य च तथा दिव्यं ब्राह्मणेभ्यो न्यवेदयत् भवद्भिः सकला चास्य चिन्ताकार्या सदैव हि
तथा वंशोद्भवा ये च पुत्राः पौत्रास्तथापरे
ततो जगाम विदुरः स्वपुरं प्रति हर्षितः ६.५९.
माघमासस्य सप्तम्यां सूर्यवारेण यो नरः
शिवं वा सोमवारेण शुक्लाष्टम्यां विशेषतः
तस्मात्सर्वप्रयत्नेन देवानां तत्त्रयं शुभम्
तत्र सिद्धिं गताः पूर्वं मुनयः संशितव्रताः
ततस्तत्सिद्धिदं ज्ञात्वा लिंगं वै पाकशासनः
कस्यचित्त्वथ कालस्य विदुरस्तत्र चागतः