सैव षष्ठी तिथिः पुण्या तस्मात्तत्र द्रुतं व्रज
स्त्रीहत्ययान्वितं ज्ञात्वा ततस्तूर्णमिहागतः
स्नानं कृत्वा ततः श्राद्धं चक्रे श्रद्धासमन्वितः
विपाप्मा त्वं कुरुश्रेष्ठ संजातोऽसि न संशयः
ततः स विस्मयाविष्टो ज्ञात्वा तीर्थमनुत्तमम्
पारिजातमयीं मूर्तिं रवेर्लक्षणलक्षिताम् ६.५७.
तथान्यत्स्थापयामास लिंगं देवस्य शूलिनः
ततः सर्वान्समाहूय स विप्रान्पुरसंभवान्
मया विनिर्मितं विप्रा देवागारचतुष्टयम्
पालयध्वं प्रयास्यामि स्वगृहं प्रति सत्वरम्
वयं सर्वे करिष्यामो युष्मच्छ्रेयोऽभिवर्धनम्
देवश्रेणिरियं राजन्या त्वयात्र विनिर्मिता
तवापि विनयं दृष्ट्वा परितुष्टा वयं नृप
तथाप्याशु वचः कार्यं युष्मदीयं मयाधुना
१ एतानि देवसद्मानि मदीयानि नरो भुवि प्रसादादेव युष्माकं तस्य तत्स्यादसंशयम्
सप्तम्यां सूर्यवारेण सर्वदैव समाहिताः ॥ ६.५७.
तथा शिवस्य चाष्टम्यां चैत्रशुक्ले विशेषतः
शयने बोधने विष्णोः संप्राप्ते द्वादशीदिने
आश्विने शुक्लपक्षे च गीतवादित्रनिस्वनैः ४३. करिष्यति च गीतादि स यास्यति परां गतिम्
वयं तस्य भविष्यामः सदैव प्रीतमानसाः
एवमुक्त्वाथ ते विप्राः स्वानि स्थानानि भेजिरे
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये गांगेययात्राख्यानंनाम सप्तपञ्चाशत्तमोऽध्यायः
ततः संस्थापयामास गंगां त्रिपथगामिनीम्
कूपिकायां महाभाग शिवलिंगस्य पूर्वतः
अस्यां यः पुरुषः स्नानं कृत्वा मां वीक्षयिष्यति
करिष्यति तथा यस्तु शपथं चात्र मानवः
एवमुक्त्वा महाभागो भीष्मः कुरुपितामहः
तत्रासीच्छूद्रसंभूतः पौंड्रकोनाम नामतः
हास्यभावाच्च मित्रस्य पुस्तकं तेन चोरितम्
पुस्तकं चैव युष्माकं चिन्तनीयं सदैव तत्