तस्यासीत्तुमुलं युद्धं भार्गवेण समं महत् अंबाकृते शितैः शस्त्रैरस्त्रैश्च तदनंतरम्
ततो ब्रह्मादयो देवाः स्वयमेव व्यवस्थिताः गताश्च ते समुत्थाप्य पुनरेव त्रिविष्टपम्
अंबापि प्राप्य परमं गांगेयोत्थं पराभवम्
भर्त्सयित्वा नदीपुत्रं बाष्पव्याकुललोचना
यस्माद्भीष्म त्वया त्यक्ता कामार्ताहं सुदुर्मते
स्त्रीहत्यया समायुक्तस्त्वं च नूनं भविष्यसि
ततः स घृणयाऽऽविष्टो भीष्मः कुरुपितामहः
भगवन्काशिराजस्य सुतया मे प्रजल्पितम् ६.५७.
तत्किं स्याद्वाक्यमात्रेण नो वा ब्राह्मणसत्तम
स्त्रीजनो वा द्विजो वापि तस्य पापं तु तद्भवेत्
स्त्रियं वा ब्राह्मणं वापि तस्मान्नैव प्रकोपयेत्
तपो वा यदि वा दानं व्रतं नियममेव वा
तत्पापं स्त्रीवधे कृत्स्नं जायते भरतर्षभ
तदत्र विषये दानं न तपो न व्रतादिकम्
ततः क्रमात्समायातो भ्रममाणो महीतले
अथापश्यन्महात्मा स सुपुण्यं तद्गयाशिरः ६.५७.
चक्रे तावन्नभोवाणी वाक्यमेतदुवाच ह
कर्तुं स्त्रीहत्ययायुक्तस्तस्माच्छृणु वचो मम
अस्मात्स्थानात्समीपस्थं वारुण्यां दिशि पुण्यकृत्
स स्त्रीहत्याकृतात्पापान्मुच्यते नात्र संशयः
सैव षष्ठी तिथिः पुण्या तस्मात्तत्र द्रुतं व्रज
स्त्रीहत्ययान्वितं ज्ञात्वा ततस्तूर्णमिहागतः
स्नानं कृत्वा ततः श्राद्धं चक्रे श्रद्धासमन्वितः
विपाप्मा त्वं कुरुश्रेष्ठ संजातोऽसि न संशयः
ततः स विस्मयाविष्टो ज्ञात्वा तीर्थमनुत्तमम्
पारिजातमयीं मूर्तिं रवेर्लक्षणलक्षिताम् ६.५७.
तथान्यत्स्थापयामास लिंगं देवस्य शूलिनः
ततः सर्वान्समाहूय स विप्रान्पुरसंभवान्
मया विनिर्मितं विप्रा देवागारचतुष्टयम्
पालयध्वं प्रयास्यामि स्वगृहं प्रति सत्वरम्