ततः पंचदशे वर्षे संप्राप्ते भगवान्रविः
अतिदुर्लभमप्याशु तव दास्याम्यसंशयम् ॥६.५६.
तस्माद्देहि सुतं मह्यं वंशवृद्धिकरं परम्
सप्तम्यश्च द्विजश्रेष्ठ निराहारस्तु भक्तितः या
एवमुक्त्वा च सप्ताश्वो विरराम दिवाकरः
नातिदीर्घेण कालेन ततस्तस्याभव तत्सुतः
ततश्चक्रे पिता नाम वटेश्वर इति स्वयम्
वटेश्वरसुतान्दृष्ट्वा पौत्रांश्च द्विजसत्तमाः
वटेश्वरोऽपि संज्ञाय पित्रा संस्थापितं रविम् ६.५६.
ततःप्रभृति लोके च स वटादित्यसंज्ञितः
सप्तम्यां सूर्यवारेण उपवासपरायणः स प्राप्नोति सुतं श्रेष्ठं स्ववंशस्य विवर्धनम्
निष्कामो वा नरो यस्तु तं पूजयति मानवः
अथ गाथा पुरा गीता नारदेन सुरर्षिणा
अपि वर्षशता नारी वंध्या वा दुर्भगापि वा
किं दानैः किं व्रतैर्ध्यानैः किं जपैः सोपवासकैः
वर्षमेकं नरो भक्त्या यः पश्येत्सूर्यवासरे
तस्मात्सर्वप्रयत्नेन तं देवं यत्नतो द्विजाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सांबादित्यमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽध्यायः
भीष्मेण ब्राह्मणेंद्राणां संमतेन तथात्मना
शंतनोर्दयितः पुत्रो गांगेय इति विश्रुतः
तस्यासीत्तुमुलं युद्धं भार्गवेण समं महत् अंबाकृते शितैः शस्त्रैरस्त्रैश्च तदनंतरम्
ततो ब्रह्मादयो देवाः स्वयमेव व्यवस्थिताः गताश्च ते समुत्थाप्य पुनरेव त्रिविष्टपम्
अंबापि प्राप्य परमं गांगेयोत्थं पराभवम्
भर्त्सयित्वा नदीपुत्रं बाष्पव्याकुललोचना
यस्माद्भीष्म त्वया त्यक्ता कामार्ताहं सुदुर्मते
स्त्रीहत्यया समायुक्तस्त्वं च नूनं भविष्यसि
ततः स घृणयाऽऽविष्टो भीष्मः कुरुपितामहः
भगवन्काशिराजस्य सुतया मे प्रजल्पितम् ६.५७.
तत्किं स्याद्वाक्यमात्रेण नो वा ब्राह्मणसत्तम
स्त्रीजनो वा द्विजो वापि तस्य पापं तु तद्भवेत्