यो मामत्र स्थितं तत्र दिवसे वीक्षयिष्यति तस्य नाशं प्रयास्यंति व्याधयो गात्रसंभवाः ॥ ६.५५.
योऽस्य कुंडस्य संभूतां मृत्तिकामपि मानवः सोऽपि रोगैर्विनिर्मुक्तः संभविष्यति पुष्टिमान्
निष्कामस्तु पुनर्यो मां तस्मिन्काले नृपोत्तम सर्वपापविनिर्मुक्तो मम लोकं स यास्यति
अन्तर्धानं गतो विप्रा यथा दीपोऽत्र तत्क्षणात्
एष संस्थापितः शंभुर्मया युष्मत्पुरोंतिके
अधुनाहं गमिष्यामि स्वराज्याय कृते द्विजाः
तव देवकृते यत्नं यात्राद्यासु क्रियासु च
तथा पूजां करिष्यामः श्रद्धया परया युताः वंशजास्ते करिष्यंति पूजामस्य सुभक्तितः
प्रतस्थे तान्प्रणम्योच्चैः सर्वैस्तैश्चाभिनंदितः
एवं स भगवाञ्छंभुस्तस्मिन्स्थाने व्यवस्थितः ६.५५.
तस्मात्सर्वप्रयत्नेन वीक्षणीयः सदा हि सः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये नलेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः
दृष्ट्वा कामानवाप्नोति सर्वान्मर्त्यो हृदि स्थितान्
यस्तु माघस्य शुक्लायां सप्तम्यां रविवासरे
आसीत्पूर्वं द्विजो नाम गालवः स महामुनिः
शुचिव्रतपरः शांतो देवद्विजपरायणः
तस्यैवं वर्तमानस्य संप्राप्तं पश्चिमं वयः
ततः सर्वं परित्यज्य गृहकृत्यं स भक्तिमान्
वटवृक्षं समाश्रित्य श्रद्धया परया युतः
वर्षास्वाकाशशायी च हेमंते जलसंश्रयः
ततः पंचदशे वर्षे संप्राप्ते भगवान्रविः
अतिदुर्लभमप्याशु तव दास्याम्यसंशयम् ॥६.५६.
तस्माद्देहि सुतं मह्यं वंशवृद्धिकरं परम्
सप्तम्यश्च द्विजश्रेष्ठ निराहारस्तु भक्तितः या
एवमुक्त्वा च सप्ताश्वो विरराम दिवाकरः
नातिदीर्घेण कालेन ततस्तस्याभव तत्सुतः
ततश्चक्रे पिता नाम वटेश्वर इति स्वयम्
वटेश्वरसुतान्दृष्ट्वा पौत्रांश्च द्विजसत्तमाः
वटेश्वरोऽपि संज्ञाय पित्रा संस्थापितं रविम् ६.५६.
ततःप्रभृति लोके च स वटादित्यसंज्ञितः