अथासौ कलिनाविष्टो द्यूतं चक्रे महीपतिः
ततः स व्यसनासक्तो वार्यमाणोऽपि सज्जनैः
अथ तां स समादाय प्रविष्टो गहनं वनम्
ततः स चिंतयामास यद्येषा भीममंदिरे
न मया तत्र गंतव्यं कथंचिदपि मानिना
येन त्यक्ता मया साध्वी कुण्डिनं याति तत्पुरम् प्रजगाम वनं घोरं वन्यश्वापदसंकुलम्॥ ६.५४.
प्रत्यूषे चापि सोत्थाय यावत्पश्यति भाभिनी
ततो विलप्य दुःखार्ता करुणं तत्र कानने
नलोऽपि च वने तस्मिन्भ्रममाणो महीपतिः
ततस्तद्वनमुत्सृज्य जगामान्यन्महावनम्
एवं स पृथिवीपालो भ्रममाणोवनाद्वनम्
एतस्मिन्नंतरे प्राप्तं तन्महानवमीदिनम्
ततः स मृन्मयीं कृत्वा चर्ममुण्डधरां नृपः
ततस्तस्याः स्तुतिं कृत्वा पुरः स्थित्वा कृतांजलिः
जय सर्वगते देवि चर्ममुण्डधरे वरे
कालरात्रि जयाचिन्त्ये नवम्यष्टमिवल्लभे ॥ ६.५४.
भीमरूपे सुरूपे च महाविद्ये महाबले
नित्यरूपे जगद्धात्रि सुरामांसवसाप्रिये
शवयानरते रम्ये भुजंगाभरणान्विते
फेत्कारा रवशोभिष्ठे गीतवाद्यविराजिते
त्वं रतिस्त्वं धृतिस्तुष्टिस्त्वं गौरी त्वं सुरेश्वरी
यत्किंचित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते
येन सत्येन तेन त्वमत्रावासं द्रुतं कुरु
प्रोवाच दर्शनं गत्वा तं नृपं भक्तवत्सला
तस्माद्गृहाण मत्तस्त्वं वरं मनसि संस्थितम्
सा मया निर्जने मुक्ता वने व्यालगणान्विते ॥ ६.५४.
अखण्डशीलां निर्दोषां यथाहं त्वत्प्रसादतः
स्तोत्रेणानेन यो देवि स्तुतिं कुर्यात्पुरस्तव
सोऽपि पार्थिवशार्दूलो लेभे सर्वं तयोदितम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नलनिर्मितचर्ममुण्डामाहात्म्यवर्णनंनाम चतुष्पञ्चाशत्तमोऽध्यायः