अत्र संनिहितो नित्यं भ्रूणरूपेण शंकरः
यदा प्रपतितं लिंगं देवदेवस्य शूलिनः
लज्जितेन स्ववासार्थं महद्दुःखयुतेन च
सर्वपापहरा तेन गर्तेयं पृथि वीपते ६.५३.
सोऽपि पार्थिवशार्दूलः प्रहृष्टः स्वपुरं ययौ
ततस्तं पापनिर्मुक्तं तेजसा भास्करोपमम्
सोऽपि ब्राह्मणशार्दूलो वसिष्ठस्तं महीपतिम्
दिष्ट्या मुक्तोसि राजेंद्र पापाद्ब्रह्मवधोद्भवात्
तस्मात्कीर्तय भूपाल कस्मिंस्तीर्थे समागतः
ततः स कथयामास भ्रूणगर्तासमुद्भवम्
ततस्ते मंत्रिणो वृद्धाः स च राजा मुनीश्वरः
भ्रूणगर्तां समासाद्य तामेव द्विजसत्तमाः
गताश्च परमां सिद्धिं कालेनाल्पेन दुर्लभाम्
ततःप्रभृति सा गर्ता प्रख्याता धरणीतले ६.५३.
तत्र कृष्णचतुर्दश्यां यः श्राद्धं कुरुते नरः
तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत्
नलेन स्थापिता पूर्वं स्वयमेव महात्मना
अभ्यर्चयति तां भक्त्या यो महानवमी दिने
वीरसेनसुतः पूर्वं नलोनाम महीपतिः
भार्या तस्याभवत्साध्वी प्राणेभ्योपि गरीयसी
अथासौ कलिनाविष्टो द्यूतं चक्रे महीपतिः
ततः स व्यसनासक्तो वार्यमाणोऽपि सज्जनैः
अथ तां स समादाय प्रविष्टो गहनं वनम्
ततः स चिंतयामास यद्येषा भीममंदिरे
न मया तत्र गंतव्यं कथंचिदपि मानिना
येन त्यक्ता मया साध्वी कुण्डिनं याति तत्पुरम् प्रजगाम वनं घोरं वन्यश्वापदसंकुलम्॥ ६.५४.
प्रत्यूषे चापि सोत्थाय यावत्पश्यति भाभिनी
ततो विलप्य दुःखार्ता करुणं तत्र कानने
नलोऽपि च वने तस्मिन्भ्रममाणो महीपतिः
ततस्तद्वनमुत्सृज्य जगामान्यन्महावनम्