शारदस्येव मेघस्य गर्जितं तव निष्फलम्
एवमुक्त्वा समादाय ततो वृक्षं स पार्थिवः
सोऽपि वृक्षं समुत्पाट्य क्रोधसंरक्तलोचनः ६.५३.
एवं द्वावपि तौ शूरौ वृक्षयुद्धं महाबलौ
कृतवन्तौ वने तत्र बहुवृक्षक्षयावहम्
अथ तं श्रांतमालोक्य कूरबुद्धिं महीपतिः
ततश्चास्फोटयामास भूमौ कोपसमन्वितः
तस्मिंस्तु निहते शूरे राक्षसे स महीपतिः
ततस्ते राक्षसाः शेषाः समंतात्तं महीपतिम्
ततस्तानपि भूपालो जघान प्रहसन्निव
ततश्च स्वपुरं प्राप्तः संप्रहृष्टतनूरुहः
ततस्तं तेजसा हीनं दुर्गंधेन समावृतम्
दृष्ट्वा ते मंत्रिणस्तस्य पुत्र पौत्रास्तथा परे
ऊचुश्च पार्थिवश्रेष्ठ न त्वमर्हसि संगमम् ६.५३.
तस्माद्वसिष्ठमाहूय प्रायश्चित्तं समाचर
ततः स पार्थिवस्तूर्णं वसिष्ठं मुनिपुंगवम्
तव प्रसादतो विप्र स हतो राक्षसो मया
मम गात्रात्सुदुर्गंधः समुद्गच्छति सर्वतः
तत्किमेतद्द्विजश्रेष्ठ तेजो हानिरतीव मे
ब्राह्मणा बहवो ध्वस्तास्तथा विध्वंसिता मखाः
येन निर्मुक्तपापोऽहं राज्यं प्राप्नोमि चात्मनः
निर्ममो निरहंकारस्ततः सिद्धिमवाप्स्यसि
ततः स पार्थिवश्रेष्ठः संयतात्मा जितेंद्रियः
न नश्यति स दुर्गंधो न च तेजः प्रवर्धते ६.५३.
ततः संभ्रममाणश्च कदाचि द्द्विजसत्तमाः
सुश्रांतः क्षुत्पिपासार्तो निशीथे तमसावृते
कृच्छ्रात्ततो विनिष्क्रांतस्तीर्थात्तस्मान्महीपतिः
दुर्गंधेन परित्यक्तं सोद्यमं लघुतां गतम्
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी
विमुक्तोऽसि महाराज सांप्रतं पूर्वपातकैः