तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कनखलतीर्थमाहात्म्यवर्णनंनाम षङ्विंशोऽध्यायः
यत्र चक्रं पुरा मुक्तं विष्णुना प्रभविष्णुना
निहत्य दानवान्संख्ये कृत्वा स्नानं सुनिर्झरे
तत्र श्राद्धं तु यः कुर्याच्छयने बोधने हरेः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे चक्रतीर्थप्रभाववर्णनंनाम सप्तविंशोऽध्यायः
यत्र स्नातो नरः सम्यङ्मनुष्यो जायते सदा
न तिर्यक्त्वमवाप्नोति कृत्वाऽपि बहुपातकम्
मृगयूथमनुप्राप्त व्याधव्याप्तं समन्ततः
सद्यो मनुष्यतां प्राप्ताः पूर्वजातिस्मरास्तथा
चापबाणधराः सर्वे यथा वै यमकिंकराः
मृगयूथमनु प्राप्तमस्मिन्स्थाने जलाश्रये वयं सर्वे परिश्रांताः क्षुत्तृड्भ्यां च विशेषतः
तीर्थस्यास्य प्रभावेण सत्यमेतदसंशयम्
कृत्वा स्नानं जले तस्मिन्सद्यः सिद्धिं गता नृप
ततः शक्रस्तु तद्दृष्ट्वा तीर्थं पापहरं नृप
अद्यापि मनुजास्तत्र बुधाष्टम्यां नराधिप 7.3.28.
पितृमेधफलं कृत्स्नं श्राद्धदानादवाप्नुयुः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे मनुष्यतीर्थप्रभाव वर्णनंनामाष्टाविंशोऽध्यायः
यत्र स्नातो नरः सम्यङ्मुच्यते सर्वकिल्बिषैः
पुराऽभून्नृपतिर्नाम सुप्रभः परवीरहा
न तथा स्त्रीषु नो भोगे नाश्वयाने न वारणे
स कदाचिन्नृपश्रेष्ठ मृगासक्तोऽर्बुदं गतः
स्तनं धयन्तीं सुस्निग्धां शिशोः क्षीरानुरागिणः
अथ सा पार्थिवं दृष्ट्वा प्रगृहीतशरासनम्
ततः सा कोपसन्तप्ता भूपालं प्रत्यभाषत
शयानो मैथुनासक्तः स्तनपो व्याधिपीडितः
तदद्य मरणं जातं मम सर्वं नृपाधम
यस्मादहमधर्मेण हता भूमिपते त्वया 7.3.29.
तां वै प्रसादयामास प्राणशेषां तदा मृगीम्
अविवेकान्मया भद्रे हता त्वं निर्घृणेन च