हतशेषान्समादाय राक्षसान्बलसंयुतः
ततस्तद्वैरमाश्रित्य भ्रातुर्ज्येष्ठस्य राक्षसः
एवं सवीक्षमाणस्य तस्य च्छिद्रं महात्मनः ६.५३.
न सूक्ष्ममपि संप्राप्तं छिद्रं तेन दुरात्मना
अथासौ ब्राह्मणान्सर्वान्विसृज्याहितदक्षिणान्
स्वहस्तेन गुरोद्याहं त्वां भोजयितुमुत्सहे
क्षालितांघ्रिः स्वयं तेन निविष्टो भोजनाय वै
कूरबुद्धिरथो वीक्ष्य तदर्थं चामिषं शुभम्
उखां कृत्वा ततस्तादृक्तत्प्रमाणामतर्किताम्
अथासौ मुनिशार्दूलो भुंजानो बुबुधे हि तत्
महामांसाशनं यस्मात्कारितोऽहं त्वयाधम
ततः संशोधयामास तस्य मांसस्य चागमम्
तेऽब्रुवन्नैतदस्माभिः श्रपितं मांसमीदृशम् ६.५३.
राक्षसं वा पिशाचं वा दानवं वा विना विभो
एतस्मिन्नंतरे तस्य नारदो मुनिसत्तमः
. तच्छ्रुत्वा कोपमापन्नः स राजा शप्तुमुद्यतः शापोद्यतं च तं दृष्ट्वा नारदो वाक्यमब्रवीत्
निघ्नन्तो वा शपन्तो वा द्विषन्तो वा द्विजातयः गुरुरेष पुनर्मान्यस्तव पार्थिवसत्तम
तस्मान्नार्हसि शप्तुं त्वं प्रतिशापेन सन्मुनिम् पादयोः कृत्स्नमुपरि प्रमुमोच ततः परम्
अथ तौ चरणौ तस्य तप्त शापोदकप्लुतौ
कल्माषपाद इत्युक्तस्ततःप्रभृति स क्षितौ
ज्ञात्वा दत्तं वृथा शापं तस्य भूमिपतेस्तदा
उवाच व्यर्थः शापोऽयं तव दत्तो मया नृप
तस्मात्त्वं राक्षसो भूत्वा कञ्चित्कालं नृपो त्तम ६.५३.
यदा त्वं क्रूरबुद्धिं तं राक्षसं निहनिष्यसि
ऊर्ध्वकेशो महाकायः कृष्णदन्तो भया नकः
ततो जघान विप्रेन्द्रान्राक्षसं भावमाश्रितः
कस्यचित्त्वथ कालस्य क्रूर बुद्धिः स राक्षसः
भ्रातुर्वधकृतं वैरं स्मरमाणस्ततः परम्
ततस्तं वेष्टयित्वापि समंताद्राक्षसो नृपम्
त्वया यो निहतोऽस्माकं ज्येष्ठो भ्राता सुदुर्मते