गीतं वा यदि वा नृत्यं तत्पुरः कुरुते नरः
एवमुक्त्वा द्विजश्रेष्ठाः स मुनिर्ब्रह्मसंभवः ६.५२.
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये रुद्रकोटिमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः
प्रभूताश्चर्यसंयुक्तं बहुसिद्धनिषेवितम्
यस्य मध्यगतो नित्यं स्वयमेव महेश्वरः
वैशाख्यां यो नरस्तत्र कृत्वा श्राद्धं समाहितः पूजयेद्दक्षिणां मूर्तिं समाश्रित्य द्विजोत्तमाः
दश पूर्वान्दशातीतानात्मानं च द्विजोत्तमाः
यो यं काममभिध्याय तत्र पीठं प्रपूजयेत्
स तत्कृत्स्नमवाप्नोति यदपि स्यात्सुदुर्लभम्
श्रद्धायुक्तो नरो यो वा उपवासपरः शुचिः स याति परमं स्थानं जरामरणवर्जितम्
किं व्रतैः किं वृथा दानैः किं जपैर्नियमेन वा
गर्ता सुविपुलाकारा सर्वपातकनाशिनी
ब्रह्महत्याविनिर्मुक्तः सौदासो यत्र पार्थिवः ६.५३.
ब्रह्मण्यस्यापि संजाता तदस्माकं प्रकीर्तय
श्रूयते स महीपालो ब्राह्मणानां हिते रतः
विमुक्तश्च कथं भूयो भ्रूणगर्तामुपाश्रितः
तदा स लज्जयाविष्टो लिंगाभावाद्द्विजोत्तमाः
कृत्वाऽतिविपुलां गर्तां प्रविवेश ततः परम्
एवं सा तत्र संजाता गर्ता ब्राह्मणसत्तमाः
आसीन्मित्रसहोनाम राजा परमधार्मिकः
तेनेष्टं विपुलैर्यज्ञैः सुवर्णवरदक्षिणैः
कस्यचित्त्वथ कालस्य सत्रे द्वादशवार्षिके
क्रूराक्षः क्रूरबुद्धिश्च राक्षसौ बलवत्तरौ ६.५३.
राक्षसैर्बहुभिः सार्धं तथान्यैर्भूतसंज्ञितैः
अथ ते राक्षसाः सर्वे किंचिच्छिद्रमवेक्ष्य च
निघ्नन्तो ब्राह्मणश्रेष्ठान्भक्षयन्तो हवींषि च
एतस्मिन्नंतरे तत्र हाहाकारो महानभूत्
ततो मैत्रसहिः क्रुद्धस्त्यक्त्वा दीक्षाव्रतं नृपः
कृतरक्षो वसिष्ठेन स्वयमेव पुरोधसा
क्रूरबुद्धिरथो वीक्ष्य हतं श्रेष्ठं सहोदरम्