एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ६.५१.
भक्त्या पठति यश्चैतच्छ्रद्धया परया युतः
प्रासादं परमं कृत्वा साधुदृष्टिसुखप्रदम्
तस्याग्रतः शुभं कुंडं तत्र चैव विनिर्मितम्
स्नात्वा तत्र नरो भक्त्या तौ पश्येद्यः समाहितः
तस्यैव पूर्वदिग्भागेऽगस्त्यकुण्डसमीपतः
तस्यां यः कुरुते स्नानं मासि वै फाल्गुने नरः
तस्या दक्षिणदिग्भागे तत्रास्ति कपिला नदी
कपिलायाश्च पूर्वेण सिद्धक्षेत्रं प्रकीर्तितम्
यो यं काममभिध्याय तपस्तत्र समाचरेत्
तस्याधस्ताच्छिला विप्रा विद्यते वैष्णवी शुभा
सदा महानदीतोयक्षालिता मुक्तिदा नृणाम् ६.५२.
त्रिवेणी वहते तस्याः पुरतो भुक्तिमुक्तिदा
नूनं मुक्तिर्भवेत्तेषां चिता भस्मनि गोष्पदम्
तस्यैवोत्तरदिग्भागे रुद्रकोटिर्द्विजोत्तमाः
महायोगिस्वरूपेण दाक्षिणात्या द्विजोत्तमाः
ततः कौतूहलाविष्टाः श्रद्धया परया युताः
अहंपूर्वमहंपूर्वं वीक्षयिष्यामि तं हरम्
एतेषां मध्यतो यस्तं महायोगिनमीश्वरम्
ततस्तेषामभिप्रायं ज्ञात्वा देवो महेश्वरः
हेलया दर्शनं प्राप्तः सर्वेषां द्विजसत्तमाः
तदर्थं पठितः श्लोको नारदेन पुरा द्विजाः ६.५२.
आषाढीं कार्तिकीं माघीं तथा चैत्रसमुद्भवाम्
आजन्मशतसाहस्रं कृत्वा पापं नरः क्षितौ
रुद्रावर्त्ते नरो गत्वा दृष्ट्वा योगेश्वरं हरम्
यस्तत्र कुरुते श्राद्धं महायोगिपुरे द्विजाः
उपवासपरो भूत्वा यः कुर्याद्रात्रिजागरम्
तत्र यः कपिलां दद्याद्ब्राह्मणायाहिताग्नये
षडक्षरं जपेद्यस्तु महायोगिपुरः स्थितः
यस्तस्य पुरतो भक्त्या जपेद्वा शतरुद्रियम्