यदन्यत्र भवेच्छ्रेयो वत्सरेण तपस्विनाम्
एवं मत्वा मया लिंगं स्नापितं पयसा सदा ६.५१.
गोकुलं च सखीः स्वाश्च तथान्यं च सुहृज्जनम्
एतत्क्षेत्रं मया पूर्वं ब्राह्मणानां मुखाच्छ्रुतम्
राज्यकर्मप्रसक्तेन भोगासक्तेन नंदिनि
दिष्ट्या मे मुनिना तेन दत्तः शापो महात्मना
स्थितस्तत्रैव तल्लिंगं ध्यायमानो दिवानिशम्
प्रासादं तत्कृते मुख्यं विधायाद्भुतदर्शनम्
ततस्तस्य प्रभावेन स्वल्पैरेव दिनैर्द्विजाः
तत्र यः कार्तिके मासि दीपकं संप्रयच्छति ८८ मार्गशीर्षे च सम्प्राप्ते गीतनृत्यादिकं नरः
एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ६.५१.
भक्त्या पठति यश्चैतच्छ्रद्धया परया युतः
प्रासादं परमं कृत्वा साधुदृष्टिसुखप्रदम्
तस्याग्रतः शुभं कुंडं तत्र चैव विनिर्मितम्
स्नात्वा तत्र नरो भक्त्या तौ पश्येद्यः समाहितः
तस्यैव पूर्वदिग्भागेऽगस्त्यकुण्डसमीपतः
तस्यां यः कुरुते स्नानं मासि वै फाल्गुने नरः
तस्या दक्षिणदिग्भागे तत्रास्ति कपिला नदी
कपिलायाश्च पूर्वेण सिद्धक्षेत्रं प्रकीर्तितम्
यो यं काममभिध्याय तपस्तत्र समाचरेत्
तस्याधस्ताच्छिला विप्रा विद्यते वैष्णवी शुभा
सदा महानदीतोयक्षालिता मुक्तिदा नृणाम् ६.५२.
त्रिवेणी वहते तस्याः पुरतो भुक्तिमुक्तिदा
नूनं मुक्तिर्भवेत्तेषां चिता भस्मनि गोष्पदम्
तस्यैवोत्तरदिग्भागे रुद्रकोटिर्द्विजोत्तमाः
महायोगिस्वरूपेण दाक्षिणात्या द्विजोत्तमाः
ततः कौतूहलाविष्टाः श्रद्धया परया युताः
अहंपूर्वमहंपूर्वं वीक्षयिष्यामि तं हरम्
एतेषां मध्यतो यस्तं महायोगिनमीश्वरम्
ततस्तेषामभिप्रायं ज्ञात्वा देवो महेश्वरः