सुवर्णं पतितं हस्तान्न च लब्धं कथंचन
नात्र नाशोऽस्ति राजेन्द्र इह लोके परत्र च
अत्र कोटिगुणं जातं सुवर्णं यत्पुरातनम्
तस्मात्संख्या च संजाता तथैवाकल्पितस्य च यत्नाच्छ्राद्धं करिष्यंति सुवर्णं च विशेषतः ॥ 7.3.26.
ब्राह्मणेभ्यः प्रदास्यंति संख्या तस्य न विद्यते
स श्रुत्वा भारती तत्र ह्याकाशादुत्थितां नृप
शुभ्रं कोटिगुणं प्राज्यं ततस्तुष्टिं समागतः प्रददौ च दयायुक्त उद्दिश्य पितृदेवताः
ततस्तस्य प्रभावेण स दानस्य महीपतिः
तत्र यः कुरुते श्राद्धं ग्रहे सूर्यस्य भूमिप
स्नानेन ऋषयो देवास्तुष्टिं यांति महोरगाः
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे कनखलतीर्थमाहात्म्यवर्णनंनाम षङ्विंशोऽध्यायः
यत्र चक्रं पुरा मुक्तं विष्णुना प्रभविष्णुना
निहत्य दानवान्संख्ये कृत्वा स्नानं सुनिर्झरे
तत्र श्राद्धं तु यः कुर्याच्छयने बोधने हरेः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे चक्रतीर्थप्रभाववर्णनंनाम सप्तविंशोऽध्यायः
यत्र स्नातो नरः सम्यङ्मनुष्यो जायते सदा
न तिर्यक्त्वमवाप्नोति कृत्वाऽपि बहुपातकम्
मृगयूथमनुप्राप्त व्याधव्याप्तं समन्ततः
सद्यो मनुष्यतां प्राप्ताः पूर्वजातिस्मरास्तथा
चापबाणधराः सर्वे यथा वै यमकिंकराः
मृगयूथमनु प्राप्तमस्मिन्स्थाने जलाश्रये वयं सर्वे परिश्रांताः क्षुत्तृड्भ्यां च विशेषतः
तीर्थस्यास्य प्रभावेण सत्यमेतदसंशयम्
कृत्वा स्नानं जले तस्मिन्सद्यः सिद्धिं गता नृप
ततः शक्रस्तु तद्दृष्ट्वा तीर्थं पापहरं नृप
अद्यापि मनुजास्तत्र बुधाष्टम्यां नराधिप 7.3.28.
पितृमेधफलं कृत्स्नं श्राद्धदानादवाप्नुयुः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे मनुष्यतीर्थप्रभाव वर्णनंनामाष्टाविंशोऽध्यायः
यत्र स्नातो नरः सम्यङ्मुच्यते सर्वकिल्बिषैः
पुराऽभून्नृपतिर्नाम सुप्रभः परवीरहा