एतत्पुनर्वयं विद्मः सदा सत्यवतां नृणाम्
प्रस्थिता व्याघ्रमुद्दिश्य पुत्रशोकेन पीडिता ॥ ६.५१.
शोकाग्निनापि संतप्ता निराशा पुत्रदर्शने
अंधेव दृष्टिनिर्मुक्ता प्रस्खलंती पदेपदे
प्रसुप्तं भ्रममाणं वा मम पुत्रं सुबालकम्
एवं प्रलप्य मनसा संप्राप्ता तत्र यत्र सः
व्याघ्रः क्षुत्क्षामकण्ठश्च तस्या मार्गावलोककः
कुरु तृप्तिं यथाकामं मम मांसेन सांप्रतम्
तां दृष्ट्वा सोऽपि दुष्टात्मा वैराग्यं परमं गतः
न हि सत्यवतां किंचिदशुभं विद्यते क्वचित्
त्वयोक्तं शपथैर्भद्रे आगमिष्याम्यहं पुनः
सोऽहं भद्रे दुराचारो नृशंसो जीवघातकः ६.५१.
तस्मात्त्वं मे महाभागे पापास्यातिदुरात्मनः
येन मे स्यात्परं श्रेय इह लोके परत्र च
तस्मात्त्वं धर्मसर्वस्वं संक्षेपान्मम कीर्तय
द्वापरे यज्ञयोगं च दानमेकं कलौ युगे
चराचराणां भूतानामभयं यः प्रयच्छति
अहिंसया भवेद्येषां प्राणयात्रान्नपूर्वकम्
न हिंसया विनाऽस्माकं यतः स्यात्प्राणधारणम् उपदेशं सुधर्माय हिंसकस्यापि देहिनाम्
गहने यत्प्रभावेन त्वया मुक्तास्म्यहं ध्रुवम्
तस्य त्वं प्रातरुत्थाय कुरु नित्यं प्रदक्षिणाम्
नान्यस्य कर्मणः शक्तिर्विद्यते ते नखायुध ६.५१.
एवमुक्त्वाथ सा धेनुर्व्याघ्रस्याथ वनांतिके
सोऽपि संदर्शनात्तस्य तत्क्षणान्मुक्तिमाप्तवान्
शापं दुर्वाससा दत्तं राज्यं स्वं सहितैः सुतैः
नृपः कलशनामाहं हैहयान्वयसंभवः
ततः प्रसादितेनोक्तस्तेनाहं नंदिनी यदा
सा नूनं नन्दिनी त्वं हि ज्ञाता शापान्ततो मया
येन गच्छाम्यहं भूयः स्वगृहं प्रति सत्वरम्
नंदिन्युवाच चमत्कारपुरक्षेत्रमेतत्पातकनाशनम्