आपद्धर्मं न वेत्सि त्वं नूनं येन प्रगच्छसि
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु जातिर्न विवाहकाले ६.५१.
तस्मात्तत्र न गंतव्यं दोषो नास्त्यत्र ते शुभे
आत्मप्राणहितार्थाय न साधूनां प्रशस्यते
सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः
विष्णवे पृथिवीं दत्त्वा बलिः पातालमाश्रितः
यः स्वं वाक्यं प्रतिज्ञाय न करोति यथोदितम्
या त्वं सत्यप्रतिष्ठार्थं प्राणांस्त्यजसि दुस्त्यजान्
किं त्वां कल्याणि वक्ष्यामः स्वयं धर्मार्थवादिनीम्
तस्माद्गच्छ महाभागे न शोच्यः पुत्रकस्तव
एतत्पुनर्वयं विद्मः सदा सत्यवतां नृणाम्
प्रस्थिता व्याघ्रमुद्दिश्य पुत्रशोकेन पीडिता ॥ ६.५१.
शोकाग्निनापि संतप्ता निराशा पुत्रदर्शने
अंधेव दृष्टिनिर्मुक्ता प्रस्खलंती पदेपदे
प्रसुप्तं भ्रममाणं वा मम पुत्रं सुबालकम्
एवं प्रलप्य मनसा संप्राप्ता तत्र यत्र सः
व्याघ्रः क्षुत्क्षामकण्ठश्च तस्या मार्गावलोककः
कुरु तृप्तिं यथाकामं मम मांसेन सांप्रतम्
तां दृष्ट्वा सोऽपि दुष्टात्मा वैराग्यं परमं गतः
न हि सत्यवतां किंचिदशुभं विद्यते क्वचित्
त्वयोक्तं शपथैर्भद्रे आगमिष्याम्यहं पुनः
सोऽहं भद्रे दुराचारो नृशंसो जीवघातकः ६.५१.
तस्मात्त्वं मे महाभागे पापास्यातिदुरात्मनः
येन मे स्यात्परं श्रेय इह लोके परत्र च
तस्मात्त्वं धर्मसर्वस्वं संक्षेपान्मम कीर्तय
द्वापरे यज्ञयोगं च दानमेकं कलौ युगे
चराचराणां भूतानामभयं यः प्रयच्छति
अहिंसया भवेद्येषां प्राणयात्रान्नपूर्वकम्
न हिंसया विनाऽस्माकं यतः स्यात्प्राणधारणम् उपदेशं सुधर्माय हिंसकस्यापि देहिनाम्
गहने यत्प्रभावेन त्वया मुक्तास्म्यहं ध्रुवम्