सर्वं कीर्तय वृत्तांतमद्यारण्यसमुद्भवम्
व्याघ्रेणासादिता तत्र भ्रममाणा इतस्ततः
स मया प्रार्थितः पुत्र भक्षमाणो नखायुधः ६.५१.
साहं तेन विनिर्मुक्ता शपथैर्बहुभिः कृतैः
श्लाघ्यं हि मरणं सम्यङ्मातुरग्रे ममाधुना
एकाकिनापि मर्तव्यं त्वया हीनेन वै मया
यदि मातस्त्वया सार्धं व्याघ्रो मां सूदयिष्यति
नास्ति मातृसमो बन्धुर्बालानां क्षीरजीविनाम्
नास्ति मातृसमः पूज्यो नास्ति मातृसमः सखा
एवं मत्वा सदा मातुः कर्तव्या भक्तिरुत्तमैः अनुतिष्ठंति ये पुत्रास्ते यांति परमां गतिम्
तस्मादहं गमिष्यामि त्वं च तिष्ठात्र गोकुले
तत्कथं मम जीवं त्वं रक्षस्यसुभिरात्मनः ६.५१.
अपश्चिममिदं पुत्र मातृसंदिष्टमुत्तमम्
भ्रममाणो वने पुत्र मा प्रमादं करिष्यसि
समुद्रमटवीं युद्धं विशंते लोभमोहिताः
लोभात्प्रमादाद्विश्रंभात्पुरुषो वध्यते त्रिभिः
आत्मा पुत्र त्वया रक्ष्यः सर्वदैव प्रय त्नतः
विषमस्थं तृणान्नाद्यं कथंचित्पुत्रक त्वया
एवं संभाष्य तं वत्समवलिह्य मुहुर्मुहुः
ततः सखीजनं सर्वं गता द्रष्टुं द्विजोत्तमाः
ततः प्रोवाच ताः सर्वा गत्वाऽरण्यं द्विजोत्तमाः
बहुले चंपके दामे वसुधारे घटस्रवे ६.५१.
तथान्या धेनवो याश्च संस्थिता गोकुलांतिके अद्याहं निजयूथस्य भ्रमंती नातिदूरतः
ततश्च गहनं प्राप्ता वनं मानुषवर्जितम्
युष्माकं दर्शनार्थाय सुतसंभाषणाय च
दृष्टः संभाषितः पुत्रः शासितश्च मया हि सः
अज्ञानाज्ज्ञानतो वापि भवतीनां मया कृतम्
अनाथो ह्यबलो दीनः क्षीरपो मम बालकः
भ्रममाणोऽसमे स्थाने व्रजमानोऽन्यगोकुले
अहं तत्र गमिष्यामि स व्याघ्रो यत्र संस्थितः