एवं तां स्नपनं तस्य सदा लिंगस्य कुर्वतीम्
अन्यस्मिन्दिवसे तत्र स्थाने व्याघ्रः समागतः
अथ सा तत्र आयाता पतिता दृष्टिगोचरे
ततः सा गोकुले बद्धं स्मृत्वा स्वं लघुवत्सकम् ६.५०.
अद्यैकाहं च संप्राप्ता कानने जनवर्जिते
येन सत्येन भक्त्याद्य स्नपनायाहमागता
एवं सा करुणं यावन्नन्दिनी विलपत्यलम्
तस्मादिष्टतमं देवं स्मर स्वर्गकृते शुभे
शिवार्चनकृते मृत्युर्मम जातः शुभावहः
वत्सो मे गोकुले बद्धः स्मरमाणो ममागमम्
एतस्मात्कारणाद्व्याघ्र विलपामि सुदुःखिता
तस्मान्मुंच महाव्याघ्र मां सद्यः सुतवत्सलाम्
भूयस्तत्रैव निर्यासि तस्मात्त्वां भक्षयाम्यहम्
तानाकर्णय मे वक्त्रात्ततो युक्तं समाचर ॥ ६.५०.
यत्पापं ब्रह्महत्यायां मातापित्रोश्च वंचने
विवस्त्रं स्नानसक्तानां दिवामैथुनगामिनाम्
रजस्वलानुसक्तानां यत्पापं नग्नशायिनाम्
विश्वासघातकानां च कृतघ्नानां च यद्भवेत्
गोकन्याब्राह्मणानां च दूषकानां च यद्भवेत्
वृथापाकप्रकर्तृणां वृथामांसाशिनां च यत्
व्रतभंगप्रकर्तृणामनृतौ गामिनां च यत्
पैशुन्यसूचकानां च यत्पापं शस्त्रकर्मणाम्
इति श्रीस्कान्दे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वरमाहात्म्ये गोव्याघ्रसंवादवर्णनंनाम पञ्चाशत्तमोऽध्यायः
सत्यं मत्वा पुनः प्राह नन्दिनीं पुत्रवत्सलाम्
यद्येवं तद्गृहं गच्छ वीक्षयस्व निजात्मजम्
गतालयं समुद्दिश्य यत्र बालः सुतः स्थितः
अथाकालागतां दृष्ट्वा मातरं त्रस्तचेतसम्
कस्मात् प्राप्तास्यकाले तु कस्मादुद्भ्रांतमानसा
येन तृप्तस्य ते सर्वं वृत्तांतं तद्वदाम्यहम्
आघ्रातश्च तया मूर्ध्नि ततः प्रोवाच सत्वरम्