कस्यचित्त्वथ कालस्य दुर्वासा मुनि सत्तमः
अथोत्थाय नृपस्तूर्णं सम्मुखः प्रययौ मुदा
ततः प्रणम्य तं भक्त्या प्रक्षाल्य चरणौ स्वयम्
इदं राज्यममी पुत्रा इमा नार्य इदं धनम्
गृहागताय विप्राय व्रतिनेऽस्मद्विधाय च
न मे किञ्चिद्धनैः कार्यं न राज्येन नृपोत्तम
तस्माद्यत्किञ्चिदन्नं ते सिद्धमस्ति गृहे नृप ६.४९.
अन्नं भोज्यकृते तस्मै प्रददौ स्वयमेव हि
व्यञ्जनानि विचित्राणि पक्वान्नानि बहूनि च तथा मांसं विचित्रं च लवणाद्यैः सुसंस्कृतम्
अथासौ बुभुजे विप्रः क्षुत्क्षामस्त्वरयान्वितः
अथ तृप्तेन मांसस्य ज्ञातस्तेन रसो द्विजाः
यस्मान्मांसं त्वया दत्त्वा व्रतभंगः कृतो मम
ततः स भूपतिर्भीतः प्रणम्य च मुनीश्वरम्
तव क्षुत्क्षामकण्ठस्य मया भक्तिः कृता मुने
तस्मात्कुरु प्रसादं मे भक्तस्य विनतस्य च
विशेषेण व्रतस्यांते चातुर्मास्योद्भवस्य च
उपवासपरो भूत्वा मांसमश्नाति यो द्विजः ६.४९.
तस्माद्व्रतं प्रणष्टं मे चातुर्मास्यसमुद्भवम्
भक्तियुक्तस्य दीनस्य निर्दोषस्य विशेषतः
दर्शयिष्यति ते मुक्तिस्तदा तूर्णं भविष्यति
एवमुक्त्वा स विप्रेन्द्रो जगाम निजमाश्रमम्
नष्टस्मृतिस्ततस्तूर्णं दृष्ट्वा जंतून्पुरःस्थितान्
अथ ते मंत्रिणस्तस्य शापस्यातं महीपतेः
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वराख्याने कलशनृपतेर्दुर्वाससः शापेन व्याघ्रत्वप्राप्तिवर्णनंनामैकोनपञ्चाशत्तमोऽध्यायः
एवं तस्य नरेन्द्रस्य व्याघ्ररूपस्य कानने
कस्यचित्त्वथ कालस्य तस्मिन्देशे द्विजोत्तमाः
तत्रास्ति नन्दिनीनाम धेनुः पीनपयोधरा
अथ सा निजयूथस्य सदाग्रे तृणवांछया
अपश्यत्तेजसा युक्तं स्वयमेव व्यवस्थितम्
ततस्तस्योपरि स्थित्वा सुस्राव सुमहत्पयः