यया वंशधरः पुत्रो दीर्घायुर्दृढविक्रमः
तस्माद्बालोऽपि ते पुत्रः पंचत्वं समुपैष्यति
दर्शयित्वा तु ते दुःखमल्पमृत्युसमुद्भवम्
भविष्यति च दीर्घायुस्ततो वंशधरो जयी
तस्माद्राजन्गृहं गत्वा कुरु राज्यमभीप्सितम्
अन्योऽपि मानवो यो मां रूपेणा नेनसंस्थिताम्
तस्याहं संप्रदास्यामि पुत्रान्हृदयवांछितान्
श्रीमहादेव उवाच भूय एव नृपश्रेष्ठ मत्तः प्रार्थय वांछितम्
पुत्रं त्यक्त्वा त्वया सोऽपि दत्तो वंशधरो जयी ॥ ६.४८.
तथापि न तवादेशो व्यर्थः कार्यः कथंचन
राजसूयकृतेऽस्माकं सदा बुद्धिः प्रवर्तते
सर्वैस्तैर्जायते यज्ञः पार्थिवैः करदीकृतैः
ततो युद्धार्थिनं मां ते वारयंति हितैषिणः
तस्मात्तव प्रसादेन राजसूयो भवेन्मखः
सोऽपि लब्धवरो भूपः स्वमेव भवनं गतः
एवं तेन नरेन्द्रेण पूर्वं तत्र विनिर्मितौ
यस्ताभ्यां कुरुते पूजां संप्राप्ते पंचमी दिने सुतं प्राप्नोति सोऽभीष्टं स्ववंशोद्धरणक्षमम्
सूत उवाच तत्रैवास्ति महापुण्यो ह्रदतीरे व्यवस्थितः
दृष्ट्वा प्रमुच्यते पापान्मनुष्यः कलशेश्वरम्
पुरासीत्कलशोनाम यदुवंशसमुद्भवः
कस्यचित्त्वथ कालस्य दुर्वासा मुनि सत्तमः
अथोत्थाय नृपस्तूर्णं सम्मुखः प्रययौ मुदा
ततः प्रणम्य तं भक्त्या प्रक्षाल्य चरणौ स्वयम्
इदं राज्यममी पुत्रा इमा नार्य इदं धनम्
गृहागताय विप्राय व्रतिनेऽस्मद्विधाय च
न मे किञ्चिद्धनैः कार्यं न राज्येन नृपोत्तम
तस्माद्यत्किञ्चिदन्नं ते सिद्धमस्ति गृहे नृप ६.४९.
अन्नं भोज्यकृते तस्मै प्रददौ स्वयमेव हि
व्यञ्जनानि विचित्राणि पक्वान्नानि बहूनि च तथा मांसं विचित्रं च लवणाद्यैः सुसंस्कृतम्
अथासौ बुभुजे विप्रः क्षुत्क्षामस्त्वरयान्वितः