स्नेहक्षयश्च दीपेषु विवाहे च करग्रहः
तस्यैवं गुणयुक्तस्य सार्वभौमस्य भूपतेः
ततः पुत्रकृते गत्वा चकार सुमहत्तपः
पंचाग्निसाधको ग्रीष्मे वर्षास्वाकाशसंस्थितः ६.४८.
ततो वर्षसहस्रांते तस्य तुष्टो महेश्वरः
ततस्तं प्रणिपत्योच्चैः स्तुत्वा सूक्तैः श्रुतैरपि
त्वत्प्रसादात्सुरश्रेष्ठ यत्किंचिद्धरणीतले
यस्मात्त्वया महामूर्ख न प्रणामः कृतो मम
तव संलप्स्यते पुत्रो यथोक्तः शूलपाणिना ६.४८.
एवमुक्त्वा भगवती सार्धं देवेन शंभुना
सोऽपि राजा वरं लब्ध्वा शापं च तदनंतरम्
एकासनं समारूढौ कृत्वा गौरी महेश्वरौ
विशेषेण ददौ दानं ब्राह्मणेभ्यो महीपतिः
ततः संवत्सरस्यांते भगवान्वृषभध्वजः
ततः स नृपतिस्ताभ्यां युगपद्विधिपूर्वकम्
पुरा देवि मयानंदपूरे व्याकुल चेतसा
देहार्धधारिणी देवि सदा त्वं शूलधारिणः
यस्तं नमति देवेशं तेन त्वं सर्वदा नता ॥ नतायां त्वयि देवेशो नतः स्यादिति मे मतिः
तथापि च पृथक्त्वेन मया त्वं तु नता सह ६.४८.
तस्मात्कुरु प्रसादं मे यः पुरोक्तः पुरारिणा
यया वंशधरः पुत्रो दीर्घायुर्दृढविक्रमः
तस्माद्बालोऽपि ते पुत्रः पंचत्वं समुपैष्यति
दर्शयित्वा तु ते दुःखमल्पमृत्युसमुद्भवम्
भविष्यति च दीर्घायुस्ततो वंशधरो जयी
तस्माद्राजन्गृहं गत्वा कुरु राज्यमभीप्सितम्
अन्योऽपि मानवो यो मां रूपेणा नेनसंस्थिताम्
तस्याहं संप्रदास्यामि पुत्रान्हृदयवांछितान्
श्रीमहादेव उवाच भूय एव नृपश्रेष्ठ मत्तः प्रार्थय वांछितम्
पुत्रं त्यक्त्वा त्वया सोऽपि दत्तो वंशधरो जयी ॥ ६.४८.
तथापि न तवादेशो व्यर्थः कार्यः कथंचन