एवं चिंतयमानस्य मम सा दयिता ततः
मा नाथ कुरु पद्मानां विक्रयं धनलोभतः ६.४७.
उपवासो बलाज्जातः सस्याभावादसंशयम्
तत्रोभाभ्यां कृतं स्नानं दिवा सरसि शोभने
तस्माद्देवं महाकालं पूजयामोऽधुना वयम्
तैः पद्मैः सत्त्वमास्थाय कृत्वा पूजां द्विजोत्तमाः
क्षुत्पीडया समायाता नैव निद्रा कथंचन
ततः प्रभातसमये प्रोद्गते रविमंडले
अथ सा दयिता मह्यं तदादाय कलेवरम्
तत्प्रभावादहं जातः कांतीनाथो महीपतिः
ततः स्वयंवरं प्राप्ता मां विज्ञाय निजं पतिम्
एतस्मात्कारणादस्य महाकालस्य जागरम् ६.४७.
अनया प्रियया सार्धं पुष्पधूपानुलेपनैः
कृतो विप्रा मया त्वेष स तदा रात्रिजागरः
अधुना श्रद्धया युक्तो यथोक्तविधिना ततः
एतद्वः सर्वमाख्यातं मया सत्यं द्विजोत्तमाः
प्रचक्रुर्जपतेस्तस्य साधुवादाननेकशः
महाकालप्रसादेन न किंचिद्दुर्लभं भुवि
तस्माद्विशेषतः सर्वे वर्षेवर्षे वयं नृप
ततः स पार्थिवस्ते च सर्व एव द्विजातयः
विशेषाद्धर्षसंयुक्ता विविधैर्गीतवादनैः तदारभ्य नृपाः सर्वे प्रचक्रुर्विस्मयान्विताः
ततः प्रभाते विमले समुत्थाय स भूपतिः अनुज्ञाप्य ययौ हृष्टः ससैन्यः स्वपुरं प्रति ॥ ६.४७.
ततः कालेन संप्राप्य देहान्तं स महीपतिः
एतद्वः सर्वमाख्यातं महाकालसमुद्भवम्
आश्रमो ऽस्ति सुविख्यातो नानाद्रुमसमावृतः
यत्र तेन तपस्तप्तं संस्थाप्योमामहेश्वरौ
आसीद्राजा हरिश्चंद्रस्त्रिशंकुतनयः पुरा
न दुर्भिक्षं न च व्याधिर्नाकालमरणं ध्रुवम्
कालवर्षी सदा मेघः सस्यानि प्रचुराणि च
२ दंडस्तत्राभवद्वास्तौ गृहरोधोऽक्षदेवने