एवं विनिश्चयं कृत्वा पद्मान्यादाय सत्वरम्
ततश्चायतने तस्मिन्प्राप्तोऽहं मुनिपुंगवाः अग्रस्थितैर्द्विजश्रेष्ठैर्जपगीतपरायणैः ॥ ६.४७.
एके नृत्यं प्रकुर्वंति गीतमन्ये जपं परे
ततः कश्चिन्मया पृष्टः क्रियते जागरोऽत्र किम्
तेनोक्तमेष देवस्य महाकालस्य जागरः
अद्य पुण्यतिथिर्नाम वैशाखी पुण्यदा परा महाकालस्य देवस्य सौख्यं प्राप्नोत्यसंशयम्
संति पद्मानि मे यच्छ मूल्यमादाय भद्रक
ततोऽवधारितं चित्ते मया ब्राह्मणसत्तमाः
न मया सुकृतं किंचिदन्यदेहांतरे कृतम्
परं क्षुत्क्षामकंठेयं भार्या मे प्रियवादिनी
एवं चिंतयमानस्य मम सा दयिता ततः
मा नाथ कुरु पद्मानां विक्रयं धनलोभतः ६.४७.
उपवासो बलाज्जातः सस्याभावादसंशयम्
तत्रोभाभ्यां कृतं स्नानं दिवा सरसि शोभने
तस्माद्देवं महाकालं पूजयामोऽधुना वयम्
तैः पद्मैः सत्त्वमास्थाय कृत्वा पूजां द्विजोत्तमाः
क्षुत्पीडया समायाता नैव निद्रा कथंचन
ततः प्रभातसमये प्रोद्गते रविमंडले
अथ सा दयिता मह्यं तदादाय कलेवरम्
तत्प्रभावादहं जातः कांतीनाथो महीपतिः
ततः स्वयंवरं प्राप्ता मां विज्ञाय निजं पतिम्
एतस्मात्कारणादस्य महाकालस्य जागरम् ६.४७.
अनया प्रियया सार्धं पुष्पधूपानुलेपनैः
कृतो विप्रा मया त्वेष स तदा रात्रिजागरः
अधुना श्रद्धया युक्तो यथोक्तविधिना ततः
एतद्वः सर्वमाख्यातं मया सत्यं द्विजोत्तमाः
प्रचक्रुर्जपतेस्तस्य साधुवादाननेकशः
महाकालप्रसादेन न किंचिद्दुर्लभं भुवि
तस्माद्विशेषतः सर्वे वर्षेवर्षे वयं नृप
ततः स पार्थिवस्ते च सर्व एव द्विजातयः