मंकिर्वैराग्यमापन्नस्त्यक्त्वा ग्रामं वनं ययौ
त्रिकालं कुरुते स्नानं गायत्रीजपमुत्तमम्
एतस्मिन्नेव काले तु तेन मार्गेण शंकरः 7.3.25.
स दृष्टः सहसा तेन पिंडारेण महात्मना
न वृथा दर्शनं मे स्याद्वरो मे गृह्यतां द्विज
यथा तथा कुरु विभो नान्यन्मे हृदि वर्तते
एतत्पिण्डारकं तीर्थ मम नाम्ना प्रसिध्यतु
एतत्पिंडारकंनाम तीर्थमत्र भविष्यति
अहमत्र महाष्टम्यां निवेक्ष्यामि महामते ते यास्यंति परं स्थानं यत्राहं नित्यसंस्थितः
मंकिः पिंडारकस्तत्र तपस्तेपे दिवानिशम्
ततः कालेन महता त्यक्त्वा देहं दिवं गतः
तस्मात्सर्वप्रयत्नेन स्नानं मन्त्रेण चाचरेत्
राजेन्द्र महिषीदानमथाष्टम्यां विशेषतः 7.3.25.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पिंडारकतीर्थमाहात्म्यवर्णनंनाम पंचविंशोऽध्यायः
तस्मिन्कनखलंनाम पर्वते पापनाशने
शृणु तत्राऽभवत्पूर्वं यदाश्चर्यं महीपते
सूर्यग्रहे महीपाल तीर्थं कनखलं गतः
प्रभूतं पतितं तोये प्रमादात्तस्य भूपतेः
ततः स्नात्वा गृहं प्राप्तः पश्चात्तापसमन्वितः
स्नानार्थं भास्करे ग्रस्ते तं च देशमपश्यत
सुवर्णं पतितं हस्तान्न च लब्धं कथंचन
नात्र नाशोऽस्ति राजेन्द्र इह लोके परत्र च
अत्र कोटिगुणं जातं सुवर्णं यत्पुरातनम्
तस्मात्संख्या च संजाता तथैवाकल्पितस्य च यत्नाच्छ्राद्धं करिष्यंति सुवर्णं च विशेषतः ॥ 7.3.26.
ब्राह्मणेभ्यः प्रदास्यंति संख्या तस्य न विद्यते
स श्रुत्वा भारती तत्र ह्याकाशादुत्थितां नृप
शुभ्रं कोटिगुणं प्राज्यं ततस्तुष्टिं समागतः प्रददौ च दयायुक्त उद्दिश्य पितृदेवताः
ततस्तस्य प्रभावेण स दानस्य महीपतिः
तत्र यः कुरुते श्राद्धं ग्रहे सूर्यस्य भूमिप
स्नानेन ऋषयो देवास्तुष्टिं यांति महोरगाः