चमत्कारपुरे क्षेत्रे पीठे तत्र द्विजोत्तमाः करोति श्रद्धया युक्तः सभार्यः स महीपतिः
उपवासपरो भूत्वा ध्यायमानो महेश्वरम् धर्माख्यानेन विप्राणां वेदाध्ययनविस्तरैः
ततः प्रातः समुत्थाय स्नात्वा धौतांबरः शुचिः
दीनांधकृपणेभ्यश्च तथान्येभ्यः सहस्रशः वैशाख्यां जागरं तस्य देवस्य पुरतोऽकरोत् ॥ ६.४७.
यथायथा स भूपालः कुरुते रात्रिजागरम्
शत्रवो विलयं यांति लक्ष्मीर्वृद्धिं प्रगच्छति
तत्रैव दिवसे तावन्महाकालस्य चाग्रतः
वेदाध्ययनसंपन्नान्व्रतनिष्ठापरायणान्
राजर्षीणां पुराणानां देवर्षीणां तथा परे यज्ञानां सागराणां च द्वीपानां च मनोहराः
अथ तान्पृथिवीपालः स प्रणम्य यथाक्रमम्
कस्मिंश्चिदथ संप्राप्ते कथांते ते मुनीश्वराः
वैशाखीदिवसे राजंस्त्वं सदाभ्येत्य दूरतः
प्रकरोषि प्रयत्नेन त्यक्त्वान्याः सकलाः क्रियाः
न ते यदि रहस्यं स्यात्तदाऽशेषं प्रकीर्तय ६.४७.
युष्माभिः कीर्तयिष्यामि तथाप्यखिलमेव हि ॥ २१० अहमासं वणिग्जात्या पुरा वै वैदिशे पुरे
कस्यचित्त्वथ कालस्य भगवान्पाकशासनः
ततो वृष्टिनिरोधेन सर्वे लोकाः क्षुधार्द्दिताः
ततोऽहं स्वां समादाय पत्नीं क्षुत्क्षामगात्रिकाम्
सौराष्ट्रं मनसि ध्यात्वा प्रस्थितस्तदनन्तरम्
क्रमेण गच्छमानोऽथ भिक्षान्नकृतभोजनः
तत्र रम्यं मया दृष्टं पद्मिनीखण्डमंडितम्
ततोऽहं तत्समासाद्य स्नातः शीतेन वारिणा
अथाहं भार्यया प्रोक्तो गृहाणेश जलाशयात् ६.४७.
ततो मया गृहीतानि पद्मानि द्विजसत्तमाः
चमत्कारपुरं प्राप्य ततोऽहं द्विजसत्तमाः
न कश्चित्प्रतिगृह्णाति तानि पद्मानि मानवः
अथ क्षुत्क्षामकण्ठस्य श्रांतस्य मम भास्करः
ततो वैराग्यमापन्नः सुप्तोऽहं भग्नमंदिरे ॥ तानि पद्मानि भूपृष्ठे निधाय सह भार्यया
अथार्धरात्रे संप्राप्ते श्रुतो गीतध्वनिर्मया
तस्माद्गच्छामि चेत्कश्चित्पद्मान्येतानि मे नरः