सर्वस्य सिद्धिरूपेण त्वं जनस्य हृदि स्थिता
भक्तिग्राह्यासि देवेशि त्वमेका भुवनत्रये
त्वं कीर्तिस्त्वं धृतिर्मेधा त्वं भक्तिस्त्वं प्रभा स्मृता
तुष्टिः पुष्टिर्वपुः प्रीतिः स्वधा स्वाहा विभावरी
लज्जा शांतिः स्मृतिर्दक्षा क्षमा गौरी च रोहिणी
ब्रह्माणी विनता लक्ष्मीः कद्रूर्दाक्षायणी शिवा
बलानाडी तुष्टिकाष्ठा रसना च सरस्वती
इंगितं नेंगितं तच्च तद्रूपं ते सुरेश्वरि ६.४६.
यक्षगुह्यकभूताश्च दैत्या ये च विनायकाः
तथान्येऽपि बहुत्वाद्ये न मया परिकीर्तिताः हरंतु देवताः पापमन्ये त्वं कीर्तिताऽपि च
एवं स्तुता सा देवेशी भूभुजा तेन भारती
परितुष्टास्मि तेनाशु वरं वृणु यथेप्सितम्
अत्रार्चायां त्रिलोकेस्मि न्यावत्कीर्तिर्मम स्थिरा
यस्त्वामाराधयेत्सम्यगत्रस्थां मन्निमित्ततः
यो मामत्र स्थितां नित्यं स्नात्वाऽत्र सलिले शुभे
तस्याहं वांछितान्कामान्संप्रदास्यामि पार्थिव सूत उवाच एवं तत्र स्थिता देवी स्वयमेव सरस्वती
ततःप्रभृति लोकानां हिताय परमेश्वरी
यस्तां पूजयते मर्त्यः श्वेतपुष्पानुलेपनैः ६.४६.
सरस्वत्याः प्रसादेन जायमानः पुनःपुनः
यो धर्मश्रवणं तस्याः पुरतः कुरुते नरः
विद्यादानं नरो यश्च तस्या ह्यायतने सदा
यो यच्छति द्विजेन्द्राय धर्मशास्त्रसमुद्भवम्
यो वेदाध्ययनं तस्याः करोति पुरतः स्थितः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सरस्वती तीर्थमाहात्म्यवर्णनंनाम षट्चत्वारिंशोऽध्यायः
अस्माकं सूतज ब्रूहि सर्वं वेत्ति यतो भवान्
रुद्रसेन इति ख्यातः सर्वशत्रुनिषूदनः
समुद्र इव गांभीर्ये सौम्यत्वे शशिसंनिभः
तस्य कांतीति विख्याता पुरी सर्वगुणान्विता
तथैवासीत्प्रिया तस्य भार्या परमसंमता
स तया सहितो राजा वैशाख्या दिवसे सदा