सूत उवाच एवं तत्र द्विजश्रेष्ठा विश्वामित्रेण धीमता
यस्तत्र कार्तिके मासे कार्त्तिक्यां कृत्तिकासु च
तथा यो भास्करं पश्येद्बृहद्वलप्रतिष्ठितम् स मुच्यते नरो रोगैर्यदि स्याद्रोगसंयुतः
नीरोगो वा नरः सद्यो लभते मनसेप्सितम् ६.४५.
कार्त्तिक्यां कृत्तिकायोगे वृषोत्सर्गं करोति यः
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्
एकतः सर्वतीर्थानि सर्वदानानि चैकतः
यश्चैतच्छुणुयान्नित्यं पठेद्वा श्रद्धयान्वितः
तानि कीर्तय सर्वाणि परं कौतूहलं हि नः
यत्र स्नातोऽतिमूकोऽपि भवेद्वाक्यविचक्षणः
लभते चेप्सितान्कामान्मानुषान्दैविकानपि
पुरासीत्पार्थिवो ना्ना विख्यातो बलवर्धनः
तस्य पुत्रः समुत्पन्नः सर्वलक्षणसंयुतः अम्बुवीचिरिति स्पष्टं समाहूय द्विजोत्तमान्
ततः स ववृधे बालो लालितस्तेन भूभुजा
ततोऽस्य सप्तमे वर्षे संप्राप्ते बलवर्धनः
ततो मूकोऽपि बालोपि मंत्रिभिस्तस्य भूपतेः
एवं तस्य महीपस्य राज्यस्थस्य जडात्मनः
ततो जलचरन्यायः संप्रवृत्तो महीतले ६.४६.
ततस्ते मंत्रिणः प्रोचुर्वसिष्ठं स्वपुरोहितम्
पश्य कृत्स्नं धरापृष्ठे शून्यतां समुपस्थितम्
ततस्तु सुचिरं ध्यात्वा दीनान्प्रोवाच मंत्रिणः
अस्ति सारस्वतं तीर्थं सर्वकामप्रदं नृणाम्
अथ तद्वचनात्सद्यः स गत्वा तत्र सत्वरम्
तत्प्रभावं सरस्वत्याः स विज्ञाय महीपतिः
ततस्तूर्णं समादाय मृत्तिकां स नदीतटात्
दधतीं दक्षिणे हस्ते कमलं सुमनोहरम्
कमण्डलुं तथान्यस्मिन्दिव्यवारिप्रपूरितम्
ततो मेध्ये शिलापृष्ठे तां निवेश्य प्रयत्नतः ६.४६.
चकार च स्तुतिं पश्चाच्छ्रद्धापूतेन चेतसा
सदसद्देवि यत्किञ्चिद्बन्धमोक्षात्मकं पदम्