स्पृष्टमात्रे ततस्तस्मिन्कमले द्विजसत्तमाः
तं शब्दं स महीपालः श्रुत्वा मूर्छामुपाविशत्
ततः कृच्छ्रेण महता कर्षितः सलिलाद्बहिः
ततस्तीरं समासाद्य कृच्छ्रात्प्राप्याथ चेतनाम् ६.४५.
ततो विषादमापन्नो दृष्ट्वा तादृङ्निजं वपुः
अथ गत्वा मुनेः पार्श्वे विश्वामित्रस्य भूमिपः
भगवन्पश्य मे जातं यादृशं वपुरेव हि
तत्किं पानीयदोषो वा किं वा भूमेर्मुनी श्वर
उच्छिष्टेन रविर्मध्ये स्वयं यस्य व्यवस्थितः
यदा स्यात्कृत्तिकायोगः कार्तिके मासि पार्थिव
तदिदं पुष्करं ज्येष्ठं भवान्यत्र श्रमातुरः
एतद्वीक्ष्य नरो ह्यत्र स्नानं कुर्याज्जलाशये
उच्छिष्टेन त्वया राजन्हरणाय हि केवलम्
बृहद्बल उवाच कथं मे स्यान्मुनिश्रेष्ठ कुष्ठव्याधिपरिक्षयः ६.४५.
ततः प्राप्स्यसि संसिद्धिं कुष्ठनाशसमुद्भवाम्
तच्छ्रुत्वा स मुनेर्वाक्यं भूमिपालो बृहद्बलः
अर्चयामास विधिवत्पुष्पधूपानुलेपनैः
उपवासपरो भूत्वा रक्तचन्दनसंयुतैः
ततः संवत्सरस्यांते स बभूव महीपतिः
ततः स्वं राज्यमासाद्य भुक्त्वा भोगाननेकशः
सूत उवाच एवं तत्र द्विजश्रेष्ठा विश्वामित्रेण धीमता
यस्तत्र कार्तिके मासे कार्त्तिक्यां कृत्तिकासु च
तथा यो भास्करं पश्येद्बृहद्वलप्रतिष्ठितम् स मुच्यते नरो रोगैर्यदि स्याद्रोगसंयुतः
नीरोगो वा नरः सद्यो लभते मनसेप्सितम् ६.४५.
कार्त्तिक्यां कृत्तिकायोगे वृषोत्सर्गं करोति यः
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्
एकतः सर्वतीर्थानि सर्वदानानि चैकतः
यश्चैतच्छुणुयान्नित्यं पठेद्वा श्रद्धयान्वितः
तानि कीर्तय सर्वाणि परं कौतूहलं हि नः
यत्र स्नातोऽतिमूकोऽपि भवेद्वाक्यविचक्षणः